________________
१९७
गर्गभरद्वाजकुलविवाहविचारः. एकापेयप्रवरोक्तस्तस्यैव धर्मप्रवृत्तौ त्र्यायप्रवरोक्तश्चाविरोधाय प्रवरद्वयविकल्पाभिप्रायकल्पनवत् सूत्रकारीयत्र्यायगार्ग्यप्रवरोक्तेः धर्मप्रवृत्त्युक्तपञ्चार्षयगार्यप्रवरोक्तेश्च प्रवरद्वयविकल्पाभिप्राय एव वक्तुमुचितः, पूर्वोक्तरीत्या कपिगणान्तर्गतगार्ग्यनिरासेन विकल्पाभिप्रायं विना अगतेः । अत एव गार्ग्यविषये एकस्मिन्नेव पञ्चायप्रवरः व्यायप्रवरश्च आश्वलायनसूत्रकृता स्वयं कण्ठत एव विकल्पितः । निर्णयसिन्धौ च--' अथ भरद्वाजाः ते चत्वारः भरद्वाजः गर्गाः ऋक्षाः कपय इति । भरद्वाजानामाङ्गिरसवार्हस्पत्यभारद्वाजेति त्रयः । गर्गाणां आङ्गिरसबार्हस्पत्यभारद्वाजशैन्यगायेति पञ्च । आङ्गिरसशैन्यगायेति वा । अन्त्ययोर्व्यत्ययो वा भारद्वाजगायेशैन्येति वा गर्गभेदानां आङ्गिरसतैत्तिरिकापिभुवेति । ऋक्षाणां कपिलानां च आङ्गिरसबार्हस्पत्यभारद्वाजवान्दनमातवचसेति पञ्च । आङ्गिरसवान्दनमातवचसेति त्रयो वा । कपीनां आङ्गिरसामहथ्योरुक्षयेति । आत्मभुवां आङ्गिरसबार्हस्पत्यभारद्वाजमन्नवदात्मभुवेति पञ्च । भारद्वाजानां सर्वेषां अविवाहः' इत्यनेन भारद्वाजेषु गर्गऋक्षस्वतन्त्रकपीनन्तर्भाव्य तत्र गार्ग्यस्य विकल्पन प्रवरह यमभिधाय परस्परमविवाहश्च प्रतिपादितः । न च तस्य सूत्रान्तरतया तद्विकल्पाभ्युपगमो नास्माकं विवक्षित इति वाच्यम् ; अविरोधेन तदुक्तप्रकारे बाधकाभावात्, तथा बहुधा दर्शनाञ्च । एतेन वैकल्पिकप्रवरद्वयवानाश्वलायनादिसम्मतोऽस्तु कश्चिद्भारद्वाजगार्ग्यः, अस्तु चापरो व्यवस्थितत्रिप्रवरवान् कषिगणान्तर्गतगार्ग्य इति सर्वसमीकरणचोद्यमपि प्रत्युक्तम् । तादृशगार्ग्यसद्भावे प्रमाणाभावस्य बाधकप्रपञ्चस्य च प्रागेव स्फुटमुपपादितत्वात् इति निगर्वः । ननु धर्मप्रवृत्तिप्राचीनकोशे वचित्--
गौतमादिवदेवायं गणः पुत्राष्टकान्वितः । अतो गार्ग्यः कपभर्तुस्स्वातन्त्र्येण विशेषितः ॥
26