________________
गर्गभरद्वाजकुलविवाहविचारः.
१९५ भावेन तद्गणे तस्य वक्तव्यत्वाभावात् । समानप्रवराण' कप्याम हय्योरुक्षय्याणां त्रयाणामेव तद्गणे वक्तव्यत्वाच्च तेषां त्रित्वसंख्यापरिच्छेदे तदितरस्य गार्ग्यस्य व्यावृत्तावपि बाधकाभावात् । अत एवापस्तम्बसूत्रानुसारिभिः सार्वभौमैः समानप्रवरनिर्णये--
वक्ष्ये तान् संकलय्याहं समानप्रवरान् स्फुटम् ।
इति प्रथमश्लोके समानप्रवराणामेव वक्तव्यत्वं प्रतिज्ञातम् । द्वितीयश्लोकेऽपि
ब्रवीम्यग्रे समानाषीनापस्तम्बर्षिसम्मतान् । इति तेषामेव तत्प्रतिज्ञातम् । उत्तरत्र तद्विवरणावसरे ‘अथात
समानप्रवरान्निर्णयामः' इति तथैव प्रतिज्ञातम् । तथैवात्रापस्तम्बोक्ता ये समानार्षेयास्ताननुक्रमिष्यामः इत्यादौ असमानप्रवरा
णामप्यत्र वक्तव्यताभ्रमनिरासदाव्य समानप्रवरवक्तव्यत्वमेवास. - कदुद्धोषितम् । सर्वेष्वपि निबन्धनेषु विवाहप्रकरणे इयमेव रीति- रभिप्रेता, तत्राप्यसमानप्रवरानुक्तेरिति तदपि न विचारसहम् । तथाहि-अस्मत्सूत्रे गौतमगणे गणाधिपतिर्गौतमः, तस्य प्रवरः आङ्गिरसायास्यगौतमेति । तद्गणप्रविष्टाः औशिजकाक्षीवताः तेषां व्यायः आङ्गिरसौशिजकाक्षीवतेति तथा तद्गणप्रविष्टाः वामदेवबृहदुक्थाः तेषां व्यायः आङ्गिरसवामदेवबाहदुक्थेति । एतेषामङ्गिरोगणत्वेन ऋषिद्वयानुवृत्तरभावात् गणाधिपतिगौतमसमानप्रवरकत्वाभावः । एते सर्वेऽपि सार्वभौमैर्दशनिर्णये विवाहप्रकरणे गौतमायास्यौचित्थ्यौशिजवामदेवाङ्गिरसकाक्षीवतबृहदुक्था अमी मिथो नोदहेयुरिति निरूपिताः । एवं हरितगणे हरितो गणाधिपतिः तस्य प्रवरः आङ्गिरसाम्बरीषयौवनाश्वेति । तद्गणप्रविष्टाः