________________
१८८
प्रवरदर्पणम्.
आपस्तम्ब:समानगोत्रप्रवरां कन्यामू ढोपगम्य च । तस्यामुत्पाद्य चाण्डालं ब्राह्मण्यादेव हीयते ॥ शातातप:
समानप्रवरां कन्यामेकगोत्रामू वा मातृवत्परिपालयेत् ॥ अत्रायं निर्णयः-सगोत्रादिविवाहमात्रे भ्रमाज्जाते चान्द्रायणम् । 'मातुलस्य सुतामू वा' इति पूर्वोक्तवचनात् । अत्र प्रतिगमनं चान्द्रायणावृत्तिरिति मञ्जरीकारः । त्यागश्योपरिभागे । 'सगोत्रां चेदमत्योपयच्छेन्मातृवदेनां बिभृयात्' इति सुमन्तूक्तेः । इदं ब्रामण्याः । 'ब्राह्मणी न त्यजेन्मातृवत् भगिनीवद्विभूयाद्गर्भो दु. ष्यति स कश्यप इति विज्ञायते' इति बोधायनेन विशेषोक्तेः। एतत् अज्ञानतः, अमत्येति निर्देशात् ॥
आरूढपतितापत्यं ब्राह्मण्यां यश्च शूद्रजः ।
सगोत्रोढासुतश्चैव चाण्डालास्त्रय ईरिताः ॥ इति । यमेन कामकृतगर्भस्य चण्डालत्वस्मृतेश्च । अत्राज्ञाना त्सद्मने चान्द्रायणम् । ज्ञानात् कृच्छूद्वयम् । अज्ञानादेकदि. नेऽभ्यासे त्रैवार्षिकम् । ज्ञानतस्तु एकरात्राभ्यासे षड्डार्षिकम् । एकरात्रादूर्ध्वमकामतोत्यन्ताभ्यासे नववार्षिकम् । तत्रैव कामतो मरणान्तिकमग्निप्रवेशरूपं, एतद्बहुकालाभ्यासेऽनवच्छिन्नाभ्यासे । अल्पकालाभ्यासे तु द्वादशवार्षिकम् । रेतस्सेकादर्वानिवृत्तौ 'मासोपवासश्चान्द्र' इत्यादि मिताक्षरायां स्मृत्यर्थसारे च परिश्रमवतां सुलभमिति दिक् ॥
इति श्रीकमलाकरभट्टकृतं प्रवरदर्पणं समाप्तम्.