________________
१८२
प्रवरदर्पणम्
राजसेकिः सामुचिः कापुटिः पिङ्गाक्षः शरद्वन्तः इति कात्या
यनोक्ताः ॥
भाकुटिः तानिः राजबलिः सैरिषिः औदवाहिः औपकत्सकि : साम्राकिः साद्यः सजातपिः सौषतः इति मात्स्योक्ताः ॥
एषां काश्यपावत्सारवासिष्ठेति काश्यपावत्सारासितेति वेति बोधायनः । एत एवाहवसिष्ठा नक्तंकाश्यपाः । दिनकर्मणि वासिष्ठप्रयुक्तप्रयाजादिभाजः । रात्रिसाध्येच राक्षोने कर्मणि कश्यपप्रयुक्त कार्यवन्त इत्यर्थः । प्रवरमञ्जय एषां सर्वैर्वासिष्ठैः काश्यपैश्चाविवाहः । एषां सङ्कतिपूतिमाषादिभिरप्यविवाह: तेषामपि वासिष्ठगोत्रत्वादित्युक्तं तु प्राक् । एते द्विगोत्राः प्रवरमञ्जरीकारादिभिस्सर्वैरुक्ताः । अन्यत्र त्वन्येऽपि द्विगोत्रा उक्ताः । प्रयोगपारिजाते, यथा सङ्गहे
जमदग्रिगणस्यापि विश्वामित्रगणस्य च । न देवरात गोत्रेण विवाहस्स्यात्परस्परम् ॥
इति । यद्यपि देवरातो बोधायनादिसूत्रेषु क्वापि जामदमयेषु नोक्तः तथाऽपीदं बीजं ज्ञेयम् । ऋचीकाख्यस्य जमदग्निः ज्येष्ठः पुत्रः मध्यमः शुनश्शेफः स देवैस्त्रातः अतो देवरातसंज्ञो विश्वामित्रपुत्रोऽभूत् । एतच्च हरिवंशे स्पष्टम् -
और्वस्यैवमृचीकस्य सत्यवत्यां महायशाः । जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः ॥ मध्यमश्च शुनश्शेफः शुनः पुच्छः कनिष्ठकः ।
इत्युक्त्वा -
देवैर्दत्तः शुनश्शेफो विश्वामित्राय भार्गवः ॥ देवैर्दत्तस्स वै तस्माद्देवरातस्ततोऽभवत् ॥