________________
प्रवरदर्पणम्.
१७९ एषां वासिष्ठात्रिजातूकण्येति प्रवराः । एषां वासिष्ठानां सर्वेषामविवाहः । जातूकर्ण्यस्यात्रिभिरपीति स्मृत्यर्थसारे । संकतिपूतिमाषौ वासिष्ठावपि द्विगोत्रेषु वक्ष्येते ॥
इति वासिष्ठाः.
अथागस्त्याः-अगस्तिः विशालाद्यः खलायनः औपदहनिः कुल्माषः दण्डिः लावणिः लाव्यः वरण्डिः वैरण्डिः बुधोदरिः सैवपथिः शाल्यातपः मौञ्जिकिः पाथोद्गतः हारिग्रीवः रौहिः मौसीलः इति बोधायनः ॥
उपकुलः सुकलापकारी वारिणिः क्षौमितिः निरिणः सौरभागः गोव्याधिः हैमवाहः अर्बुदः मेदिनीपञ्चकः देवतः अगवः शैरिषः वित्तपः अवतानः इति कात्यायनोक्ताः ॥
सैवकः सौभरायणः वैकर्णायनः गाायनः प्राचार्यः शालडायनिः वाह्यायनः वाह्यकिः साकाक्षिः तण्डिः लाज्यामतिः ह्रद्रोगः प्रादुराक्षिः रम्याक्षिः पण्डोध्वतः कुड्याक्षिः रोवायुधः पटलः वैद्योरदिः वैरण्डिः दामोष्णीषः तन्नरः सौम्यायनिः ब्राह्मण्यः पुत्रिः वासिष्ठायणः शारङ्गरः पाण्डः वचनः इति कश्चित् ॥ ___ अगस्त्यदायच्युतैष्मवाहेति त्रयः । अगस्त्य एको वेत्यापस्तम्बः । अगस्तिः करम्भिः कुरुनाड्यः कौसल्यः खगेवसः मयोभुवः गान्धरायणः पुलस्तिः पुलहः क्रतुः वस्तवः इत्येषामागस्त्यमाहेन्द्रमायोभुवेति कात्यायनमात्स्यौ । सोमवाहानामागस्त्यदैर्घच्युतसोमवाहेति । साम्भवाहानामागस्त्यदैर्घच्युतसाम्भवाहेति । य