________________
प्रवरदर्पणम्.
७५
एते निध्रुवास्तेषां काश्यपावत्सारनैध्रुवेति प्रवराः ।
केवलकाश्यपानां काश्यपावत्सारासितेति प्रवराः इत्याश्वलायनः । सिद्धान्तभाष्येऽप्ययमुक्तः।
शाम्भवः मैत्रेयः रेभः एषां रेभाणां काश्यपावत्साररैभेति कात्यायनः ।
अथ शाण्डिलाः-शण्डिलः कोहलः पाचकः वापिकः औदमेघः सौदनुः साववसः कारेयः. कौकण्टकिः तैक्षमाहुकिः बहूदकिः कौशिः मौञ्जायनः माणवंशः कामशिः आयवत्सः खार्वमानयः गाङ्गायनः वात्सबलिः - गोभिलः वेदायनः वात्स्यायनः बहूदरिः भागुरिः खादन्तीमुखः हिरण्यबाहुः अग्निदेहः गोमूत्रः वाक्यशठः जानन्धरिः जालन्धरिः धन्वन्तरिः इति बोधायनोक्ताः ॥
सम्पचः चटुभिः उपलोधः जलन्धवः बहुमिन्धः हैपुरः पर्वमौञ्जिमः गर्दभीमुखः चेरलः केशीभः कोकिलः कुहवः ढकसण्डः देवजातिः तृणबिन्दुः कौवलिः उत्तरः सुकेतुः कौरुण्डजः शाखिलः बैदानवः सौदानवः पैप्पलः पूपरिः वारिः इति कात्यायनोक्ताः ॥ ___ सम्पातिः वलिः सुजातिपूरः पर्यश्वकर्दमः कैरातः कश्यपः सुकेतुः तदपांसः स्ववसुः महाकोरलयः अयः वेदयातिः पैप्पलादिः तोवरिः इति मात्स्योक्ताः ॥
जांवंशः शत्रुगायनः डाजः मुञ्चमयूरः मागीदर्भः कुहनः चटायनः गृहलः मङ्गलः भुञ्जालः इति कश्चित् ।
एषां काश्यपावत्सारशाण्डिल्येति वा काश्यपावत्सारदैवलेति वा काश्यपावत्सारासितेति वा शाण्डिल्यासितदैवलेति वा प्रवराः