________________
प्रवरदर्पणम्. डूकरः सैन्धवः गतवः साङ्करः सोमनिः पौष्यण्डिः भागलः तुण्डः कुण्डेबः कारोट: कारवारिः उपविन्दुः मान्धर्यः रोहितायनः तोप्यकाणिः पाथिर्वः मैदहायनः स्कान्दः सार्वः कौटिल्यः नरोहित्यः नीचिर्वा समूलिर्वा सपुष्पिर्वा सधूपः कावाक्षिः क्षपोवारषिः करेलिः कराळिः इति कात्यायनोक्ताः । मात्स्ये त्वन्येऽपि-उतथ्यः गौतमः बौधिः नगः सुगोमाक्षिः क्षीरटः टेकिः बाहुकर्णिः सौपुरिः कैरातिः सामलोमकिः पौष्कजितिः भागवित्तिः वाडालकः सुतपाः वीरः सुरैषिणः रौहिणः निचोराणिः कोष्ठः आरुणायनिः सोमदायनः कासोरुः कौशिल्यायनः रोधोमूलिः वासः पुष्पवान् विश्वन्तिः विश्वः पात्विकारेविः इति । औपमन्यः ऐटिकिः शौनरिः शालापिः खरिङ्कः नैकषिः तौदेवः बाल्योदः इति कैश्चिदुक्ताः । एषामौतथ्यानामाङ्गिरसौतथ्यगौतमेति त्रयः प्रवरा इति कात्यायनाश्वलायनौ । आङ्गिरसौतथ्यौशिजेति वेति मात्स्ये । केन चित्त्वेते शारद्वन्तमध्ये गणिताः, स कात्यायनादीनां पौर्वापर्यमपश्यन् पशुतुल्य इत्युपेक्षणीयः ॥
कौमण्डः मामन्धरेषणः मासुराक्षः काष्टरेभिः आजायनः वायनः मासुरेषिः वाशिरिः तेषां पञ्च प्रवराः आङ्गिरसौतथ्यकाक्षीवतो मकौमण्डेति । एत एवौशिजास्तेषां आङ्गिरसौशिजकाक्षीवतेत्यापस्तम्बः । एतेषां आङ्गिरसायास्यौशिजगौतमकाक्षीवतेति पञ्च प्रवरा इति कात्यायनः । एते काक्षीवतास्तेषां पञ्च आङ्गिरसौतथ्यगौतमौशिजकाक्षीवतेत्याश्वलायनः ॥
दीर्घतमस आङ्गिरसौतथ्यकाक्षीवतगौतमदैर्घतमसेति पञ्चेति बोधायनः । आङ्गिरसौतथ्यदैर्धतमसेति त्रयो वेत्याश्वलायनः ॥
औशनसः दिश्यः प्रशस्तः सुरूपाक्षिः महोदरः विकंहन्तः सुबोध्यः निहतः इत्येतेषां त्रयः प्रवराः आङ्गिरसगौतमोशनसेति बोधायनः ॥
21