________________
प्रवरदर्पणम्.
१५९ वाहिः हालेयः दीर्घवित्तः गौजिंगः वासोदः इति मात्स्योक्ताः। माधुलः अर्थलेभिः वृकाश्मकिः मदोकिः मञ्चारेयः गैरिक्षितः दैचित्तः पञ्चालवः पाण्यवत्तः पौष्णावतः गोदायनः इति कात्यायनोक्ताः । साटिसावर्णी द्वावधिकावाश्वलायनोक्तौ । एते वैतहव्या इत्यपि कैश्चिदुक्ताः । एषां त्रयः प्रवराः भार्गववैतहव्यसावेदसेति । एषां परस्परमविवाहः । ' तेषामविवाह' इति कात्यायनोक्तेः पूर्वोक्तैः वत्साद्यैः वक्ष्यमाणैर्भार्गवैश्च भवत्येव विवाहः । द्वित्रिप्रवरसाम्याभावात् । एवं वक्ष्यमाणेषु सर्वेषु भृगुगणेषु स्वगणस्थैरविवाहः अन्यैर्विवाह इति ज्ञेयम् ।
अथ मित्रयुवाः-मित्रयुवः रौक्यायणः नाशार्यजनः गेष्टायनः रौक्षायनः सापिण्डिनः सुरभितयः माल्यः यावाल्यः महावाल्यः ताायणः औरुक्षायणः उक्षायणः वाचायनः माजाधिः कैतवायनः इति बोधायनोक्ताः । आश्वलायनः शाकटाक्षः मैत्रेयः साचर्यः द्रोणायनः गोपायनः आपिशल: पाटिकायनः हसजिह्वः इति कात्यायनोक्ताः शालायनिः सान्वयः रौक्थायनः आपिकायनः इति मात्स्योक्ताः । कैश्चिद्रौप्यायणरौक्मायणसात्यकिपिकाक्षमोदायनकापिशायनशाण्डेयसक्षितमित्रयुगापिशायनवाध्रचश्वदिवोदासा अ. प्युक्ताः । एषां त्रयः प्रवराः भार्गववाध्रचश्वदैवोदासेति कात्यायनः । भार्गवच्यावनदैवोदासेति वेति मात्स्ये उक्तम् । अस्मिन् पक्षे प्रवरद्वयसाम्यात्पूर्वैरविवाहः । अन्यपक्षे तु भवत्येव । वाध्रचश्वेत्येको त्याश्वलायनः ।
वैन्यः पार्था बाप्कलः इति वैन्यास्तेषां त्रयः भार्गववैन्यपार्थेति ।
शुनकः याज्ञपिः गार्समदः खादायनः गाङ्गायनः गर्भायणः मात्स्यगन्धः स्वौजः श्रोत्रियः तैत्तिरीयः पत्पूलः इति कात्याय