________________
१५२
प्रवरदर्पणम्.
'यथर्षि मन्त्रकतो वृणीते' इति सूत्रकारवचनात् । कातीयभिन्नशाखीयाध्वयूणां तु होतृप्रातिलोम्येन वरणं, 'इत उर्ध्वानध्वर्युर॑णीतेऽमुतोर्वाचो होता' इत्यापस्तम्बबोधायनोक्तेः । इतः यजमानादूछन् प्रातिलोम्येनाध्वर्युर्वृणीते । अमुतो यजमानविप्रकृष्टादृग्वादेरारभ्यानुलोम्येन होतेत्यर्थः । होता तद्धितान्तं संबुद्धयन्तं वदेत्, 'होता तद्धितवदामन्त्रवञ्च' इति कातीयसूत्रात् । अध्वर्युस्त्वतत्तद्वितान्तं वत्यन्तं च, 'भृगुवदित्यध्वर्युः' इति सूत्रकाराणां सर्वत्र पाठदर्शनात् । कातीयाध्वयोरपि पाठक्रमोनुलोम एव, ‘परस्ताद
ञ्चि त्रीणि' इति तत्सूत्रात् । तत्र भृग्वङ्गिरोगणयोस्तु पञ्चप्रवरे त्रिप्रवरसाम्यात्, त्रिप्रवरे द्विप्रवरसाम्याच्चाविवाहः । एकप्रवरसाम्ये तु असमानगोत्रत्वाद्भवत्येव विवाहः । यथाऽऽह मञ्जर्यां बोधायनः'भग्वङ्गिरसो भिन्नविवाहं कुर्व ते न चेत्समानार्षेया बहवस्स्युः । द्वयायसन्निपातेऽविवाहस्त्र्यायाणां व्यायसन्निपाते अविवाहः पश्चार्षयाणाम् ' इति । अस्यार्थः–केवलभृग्वङ्गिरसश्च भिन्नगणैविवाहं कुर्व ते कुर्युः । लकारव्यत्ययः छान्दसः । तेषां सप्त
ग्रंपत्यत्वाभावेन गोत्रत्वाभावात् । यद्यसमानापेक्षया प्रवरा बहवस्समाना न स्युः किं त्वल्पे समानाः सर्वे वाऽप्यसमानाः बहवो वा तदा विवाहं कुर्युरित्यर्थः ॥
अविवाहविषयमाह—यत्र त्वसमापेक्षया समा अधिकाः यथा व्योर्षयेष्वेकापेक्षया द्वावधिको समौ पञ्चायेषु च द्वावपेक्ष्य त्रयोधिकास्समास्तदा विवाहो नेति । माधवीये स्मृत्यन्तरेऽपि
पञ्चानां त्रिषु सामान्यादविवाहस्त्रिषु द्वयोः ।
भृग्वाङ्गिरोगणेष्वेवं शेषप्वेकोपि वारयेत् ॥ इति । एकोपि प्रवरो विवाहं वारयेदित्यर्थः । इदं तु केवलभग्वङ्गिरोगणविषयमेव । भृग्वङ्गिरोगणान्तर्गतजमदग्निगौतमभरद्वा