________________
समाप्तिसूत्रकाण्डम्. यति । कथम् ? अयाज्ययाजनं नाम महापातकादपि गुरुतरपापं गौतमवाक्यादवगम्यते । यथा प्रायश्चित्तनिमित्तानि वदन् ‘अथैतदयाज्ययाजनमनृतवचनं शिष्टस्याक्रिया प्रतिषिद्धसेवनम्' इत्यत्र विहिताकरणप्रतिषिद्धसेवनयोरन्तर्भूतमप्ययाज्ययाजनं पृथगेव प्रथममेव वदति दोषगौरवं पश्यन् । तदपि पापं गोत्रप्रवरविदां नास्तीत्यर्थः । मन्त्रब्राह्मणमित्यादिना प्रवराणां मन्त्रब्राह्मणयोरन्तर्भावात् प्रवरशास्त्रेषु तात्पर्यं कर्तव्यमित्याह । श्राद्धविवाहादीनि गोत्रान्तानि महाप्रवरे सन्तिष्ठन्ते इति वदन्महाप्रवराध्यायं स्तौति । तथा हि
महतोत्साहनीयत्वा*न्महद्भिश्च परिग्रहात् । महाफलप्रदत्वाच्च महाप्रवर उच्यते ॥
नित्यं पर्वणीत्यनेन स्वाध्यायाविरुद्धेषु पर्वसु प्रवराध्यायान्पठतो ब्रह्मलोकावाप्तिलक्षणफलं दर्शयति । ननु ब्रह्मज्ञानाढते ब्रह्मलोकप्रापकं नास्ति ‘नान्यः पन्था विद्यते' इति श्रुतेः । मैवं वोचः । पञ्चाग्निविज्ञानस्य दर्शनात् । केवलकर्मणां च दर्शनात् । यथाऽऽह गौतमः--' यस्यैतञ्चत्वारिंशत्संस्कारा अष्टौ चात्मगुणाः स ब्रह्मणस्सायुज्यं गच्छति' इति । अथवा नित्यकर्मणामङ्गत्वात्प्रवराणां नित्यकर्मणां च मुक्तिहेतुत्वात्तद्वारेण मुक्तिसाधनमित्यदोषः । अथवा वसिष्ठप्रभृतीनां ब्रह्मविदां ब्रह्मकल्पानां संकीर्तनजनितात्पुण्योपचयादेवब्रह्मज्ञानफलत्वेन ब्रह्मलोकप्राप्तिरिति सर्वमनवद्यम् ॥
इति पुरुषोत्तमपण्डितविरचितायां गोत्रप्रवरमाया
महाप्रवराध्यायसमाप्तिसूत्रकाण्डव्याख्यानम्.
*मत्सहनीयत्वा.
19