________________
प्रवरमवारी ___ अतः परं प्रवक्ष्यामि किं भवानद्य कथ्यताम् ॥ मनुरुवाचपुलहस्य पुलस्त्यस्य क्रतोश्चैव महात्मनः ।
अगस्त्यस्य तथा चैव कथं वंशस्तदुच्यताम् ॥ मस्त्य उवाच
क्रतुः खल्वनपत्योस्मिन् राजन्वैवस्वतेऽन्तरे। इध्मवाहं स पुत्रत्वे जग्राह ऋषिसत्तमः॥ अगस्त्यपुत्रं धर्मज्ञं आगस्त्याः कतवस्ततः । पुलहस्य तथा पुत्रास्त्रयश्च पृथिवीपते ॥ तेषां ते जन्म वक्ष्यामि उत्तरत्र यथाविधि । पुलहस्तां प्रजां दृष्ट्वा नातिप्रीतमनास्स्वकाम् ॥ अगस्त्यजं दृढच्युतं पुत्रत्वे वृतवांस्ततः। पौलहाश्च तथा राजन्नागस्त्याः परिकीर्तिताः॥ पुलस्त्यान्वयसंभूतान् दृष्ट्वा रक्षस्समुद्भवान् । अगस्त्यस्य सुतं धीमान पुत्रत्वे वृतवांस्तथा ॥ पौलस्त्याश्च तथा राजन्नागस्त्याः परिकीर्तिताः।
एते तवोक्ताः प्रवरा द्विजानां महानुभावा नृप वंशकाराः॥