________________
वसिष्ठकाण्डम्.
अद्य प्रभृति ते स्थानं निर्जीव ददाम्यहम् ॥ नेत्रपक्ष्मसु सर्वेषां त्वं वसिष्यसि पार्थिव । त्वत्सम्बन्धात्तथा तेषां निमेषस्तम्भविष्यति ॥ चालयिष्यन्ति तु तदा नेत्रपक्ष्माणि मानवाः । एवमुक्ते मनुष्याणां नेत्रपक्ष्मसु सर्वशः॥ जगाम निमिजीवस्तु वरदानात्स्वयम्भुवः । वसिष्ठजीवं भगवान् ब्रह्मा वचनमब्रवीत् ॥ मित्रावरुणयोः पुत्रो वसिष्ठस्त्वं भविष्यसि । वसिष्ठेति च ते नाम तत्रापि च भविष्यति ॥ जन्मद्वयमतीतं च तत्रापि त्वं स्मरिष्यसि । एतस्मिन्नेव काले तु मित्रश्च वरुणस्तथा ॥ बदर्याश्रममासाद्य तपस्तेपतुरव्ययौ। तपस्यतोस्तयोरेव कदाचिन्माधवे ऋतौ ॥ पुष्पितद्रुमसंस्थाने शुभे दयितमारुते । ऊर्वशी तु वरारोहा कुर्वती कुसुमोच्चयम् ॥ सुसूक्ष्मरक्तवसना तयोर्दृष्टिपथं गता। तां दृष्ट्वा सुमुखों सुबूं नीलनीरजलोचनाम् ॥ उभौ चुक्षुभतुधैर्यात्तद्रूपपरिमोहितौ । स्कनं रेतस्ततो दृष्ट्वा शापभीतौ परस्परम् ॥ चक्रतुः कलशे शुक्र तोयपूर्णे मनोरमे ।