________________
कश्यपकाण्डम्
ऽऽपस्तम्बादिभिरुक्तौ विकल्पेन द्वौ प्रवरौ । देवलासितेति प्रथमः । काश्यपदैवलेति द्वितीयः । तत्रैतेषु प्रवरेषु षट्स पञ्च मन्त्रदृशः प्रतीयन्ते-कश्यपावत्सारशण्डिलदेवलासिताः । ततः शण्डिलानां पञ्चार्षेयः प्रवरो वक्तव्यः काश्यपावत्सारशाण्डिल्यदैवलासितेति, 'यथर्षि मन्त्रकतो वृणीते' 'यावन्तो वा मन्त्रदृशो वृणीते' इति श्रुतिभ्याम् । तथा 'यजमानाःयाण्याह परस्तादर्वाञ्चि त्रीणि' इत्युक्ता 'यावन्तो वा मन्त्रकृतस्तावन्तो वृणीते' इति कात्यायनवचनाच्च । तथाऽपि पञ्चायप्रवरः केनापि सूत्रकारेण नोपदिष्टः । तस्मात्समानायामपि शाण्डलसमाख्यायां वंशभेदकल्पनया व्यवस्थिता एते विकल्पा द्रष्टव्याः । वंशैक्ये सति पञ्चायवरणं प्रसज्यत इत्युक्तम् । तस्माद्यथोक्त एवार्थः ॥
शुङ्गशैशिरिरित्येको द्विगोत्रः प्रोच्यते मुनिः । तद्वंशप्रभवाः प्रोक्ताश्शुङ्गशैशिरयो यथा ॥ तथैकोहर्वसिष्ठत्वं नक्तंकश्यपतां गतः । मुनिर्दिगोत्रस्तदंश्या लोगाक्ष्याद्या द्विगोत्रजाः ॥ द्वयोरपत्यसामान्यादग्नेर्वरणमेतयोः। विकल्पेनाहुराचार्या विकल्पो नान्यथा भवेत् ॥ प्रथमः प्रवरः प्रोक्तः पितुरुत्पादकस्य यः । प्रतिग्रहीतुः पाश्चात्यश्शुङ्गशैशिरि[री]णां यथा ॥ इति श्रीपुरुषोत्तमपण्डितविरचितायां गोत्रप्रवरमञ्जयां
कश्यपगोत्रप्रवरकाण्डानि व्याख्यातानि.
-
अथ वसिष्ठगोत्रप्रवरकाण्डं व्याख्यास्यामःअतः परं वसिष्ठानां गोत्रप्रवरविस्तरम् ।