SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ साम्यशतक अहंकारादिरहितं निःछद्मसमतास्पदम् । आद्यमप्युत्तमं किंचित् पुरुषं प्रणिदध्महे ||१|| उन्मनीभूयमास्थाय निर्माय समतावशात् । जयन्ति योगिनः शश्वदंगीकृत शिवश्रियः ||२|| औदासीन्यक्रमस्थेन भोगिनां योगिनामयम् । आनंदः कोऽपि जयतात् कैवल्यप्रतिहस्तकः ॥३॥ साम्यपीयूषपाथोधि स्नाननिर्वाणचेतसाम् । योगिनामात्मसंवेद्यमहिमा जयताल्लयः ॥४॥ आस्तामयं लयः श्रेयान् कलासु सकलास्वपि । निष्कले किल योगेऽपि स एव ब्रह्मसंविदे ||५|| नित्यानन्द अमृतं स्यादिमं यः कश्चिन्न लयः साम्ये मनागाविर्मून्मम । तमाशु वचसां पात्रं विधातुं यतते मतिः ॥७ ॥ अष्टांगस्यापि योगस्य रहस्यमिदमुच्यते । यद् विषयासंगत्यागान्माध्यस्थ्य सेवनम् ||८|| राग-द्वेष परित्यागाद्विषयेष्वेषु वर्तनम् । औदासीन्यमिति प्राहुरमृताय रसांजनम् ||९|| तस्यानघमहो बीजं निर्ममत्वं स्मरन्ति यत् । तद्योगी विदधीताशु तत्रादरपरं मनः ||१०|| विहाय विषयग्राममात्माराममना सुधारश्मेरमनस्ककलामला 4. बीजमनपाया जयत्यसौ ||६|| भवन् । निर्ममत्वसुखास्वादान्मोदते योगिपुंगवः ॥११॥
SR No.007163
Book TitleSamya Shatak
Original Sutra AuthorN/A
AuthorVijaysinhsuri
PublisherShrimad Rajchandra Ashram
Publication Year2004
Total Pages1320
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy