SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ ५११ निजविधि । षष्ठी ङस् । 'ङसि-ङसोः पुं-क्लीबे वा' (३।२३) ङसि० → णो० । 'क-ग-च-ज०' (१।१७७) ज्लुक् निअविधिणो। दुर्व्यवसितेन । 'अधो म-न-याम्' (२।७८) य्लुक् । 'सर्वत्र ल-व०' (२१७९) लुक् । 'अनादौ०' (२१८९) द्वित्वं - व० → व्व० । 'तो दोऽनादौ०' (४।२६०) ते० → दे० । 'नो णः' (१।२२८) न० → ण दुव्ववसिदेण । वयं निजविधेर्निजकर्मणः एतेन दुर्व्यवसितेन - दुष्टविलसितेन परिश्रान्ता इत्यर्थः ॥२८२।। ___णं नन्वर्थे ॥ ८।४।२८३ ॥ शौरसेन्यां नन्वर्थे णमिति निपातः प्रयोक्तव्यः ॥ णं अफलोदया । णं अय्यमिस्सेहिं पुढमं य्येव आणत्तं । णं भवं मे अग्गदो चलदि ॥ आर्षे वाक्यालङ्कारेऽपि दृश्यते - नमोत्थु णं । जया णं । तया णं ॥ [णं नन्वर्थे ] णं प्रथमा सि । नन्वर्थ सप्तमी ङि । [णं अफलोदया] णं सूत्रेण सिद्धम् । अफल उदयो यस्याः सा = अफलोदया स्त्री । [णं अय्यमिस्सेहिं पुढमं य्येव आणत्तं] आर्यमिश्र । तृतीया भिस् । 'भिसो हि-हि-हिं' (३७) भिस् → हिं । 'भिस्-भ्यस्-सुपि' (३।१५) श्र० → श्रे० । 'नवा र्यो य्यः' (४।२६६) र्य० → य्य० । 'हूस्वः संयोगे' (१८४) आ० → अ० । 'सर्वत्र ल-व०' (२७९) रलुक् । 'अनादौ०' (२८९) द्वित्वं - शे० → श्शे० । 'श-षोः सः' (१।२६०) श्शे० → स्से० अय्यमिस्सेहि। प्रथम । 'सर्वत्र ल-व०' (२१७९) लुक् । 'प्रथमे प-थोर्वा' (१।५५) प० → पु० । 'मेथी-शिथिर-शिथिल-प्रथमे थस्य ढः' (११२१५) थ० → ढ० । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः पुढमं। एव । 'एवार्थे य्येव' (४।२८०) य्येव निपातः । आज्ञप्तम् । 'म्न-ज्ञोर्णः' (२।४२) ज्ञस्य णः । 'क-ग-ट-ड०' (२७७) प्लुक् । 'अनादौ०' (२१८९) द्वित्वं - तं० → तं० आणत्तं । [णं भवं मे अग्गदो चलदि] भवान् । 'स्वराणां स्वराः' (४।२३८) वा० → व० । 'भवद्-भगवतोः' (४।२६५) न्० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः भवं । अग्रतः । 'सर्वत्र ल-व०' (२१७९) लुक् । 'अनादौ०' (२१८९) द्वित्वं - ग० → ग्ग० । 'तो दोऽनादौ०' (४।२६०) त० → द० । 'अतो डो विसर्गस्य' (११३७) विसर्गस्य डो० → ओ० । 'डित्यन्त्यः ' (२।१२११४) अन्त्यस्वरादिलोपः । 'लोकात्' (१।१।३) अग्गदो। 'चल कम्पने' (९७२) चल् । वर्तः तिव्' । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) चलति । 'त्यादीनामाद्य०' (३३१३९) तिव्० → इच् । 'दिरिचेचोः' (४।२७३) इच् → दि० चलदि । १. विदूषकः - णं भवं अग्गदो मे वट्टदि । [अभि० शा० द्वितीयेऽङ्के] ननु भवानग्रतो मे वर्त्तते ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy