SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ ४७७ वेष्टः ॥ ८।४।२२१ ॥ 'वेष्टि वेष्टने' (६७३) इत्यस्य धातोः ‘क-ग-ट-ड०' (२७७) इत्यादिना षलोपेऽन्त्यस्य ढो भवति ॥ वेढइ । वेढिज्जइ ॥ [वेष्टः] वेष्ट षष्ठी ङस् । [वेढइ ] 'वेष्टि वेष्टने' (६७३) वेष्ट । वर्त० ते । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) वेष्टते । 'कग-ट-ड०' (२७७) ष्लुक् । अनेन टस्य ढः । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० वेढइ । [वेढिज्जइ] वेष्ट । वेष्टते । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । 'ईअ-इज्जौ क्यस्य' (३।१६०) क्य० → इज्ज आदेशः । शेषं पूर्ववत् । वेढिज्जइ ॥२२॥ समो लः ॥ ८।४।२२२ ॥ सम्पूर्वस्य वेष्टतेरन्त्यस्य द्विरुक्तो लो भवति ॥ संवेल्लइ ॥ [समो लः ] सम् षष्ठी ङस् । ल्ल प्रथमा सि । [संवेलड़] सम्पूर्व० 'वेष्टि वेष्टने' (६७३) वेष्ट । वर्त० ते । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१२११३) संवेष्टते । 'क-ग-ट-ड०' (२२७७) ष्लुक् । अनेन टस्य ल: । 'त्यादीनामाद्य०' (३१३९) ते० → इ० संवेला ॥२२२॥ वोदः ॥ ८।४।२२३ ॥ उदः परस्य वेष्टतेरन्त्यस्य ल्लो वा भवति ॥ उव्वेल्लइ । उव्वेढइ ॥ - [वोदः] वा प्रथमा सि । उद् षष्ठी ङस् । [उव्वेलड़] उद्पूर्व० 'वेष्टि वेष्टने' (६७३) वेष्ट । वर्त० ते । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) उद्वेष्टते । 'क-ग-ट-ड०' (२७७) ष्लुक् । अनेन टस्य ल: । 'क-ग-ट-ड०' (२७७) द्लुक् । 'अनादौ०' (२१८९) द्वित्वं-व्वे० । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० उव्वेल्लइ । पक्षे - [उब्वेढइ ] उद्पूर्व० 'वेष्टि वेष्टने' (६७३) वेष्ट । वर्त० ते । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) उद्वेष्टते । 'क-ग-ट-ड०' (२७७) ष्लुक् । 'वेष्टः' (४।२२१) टस्य ढः । 'क-ग-ट-ड०' (२।७७) द्लुक् । 'अनादौ०' (२।८९) द्वित्वं-ब्वे० । 'त्यादीनामाद्य०' (३३१३९) ते० → इ० उब्वेढइ ॥२२३।। स्विदां ज्जः ॥ ८।४।२२४ ॥ स्विदिप्रकाराणामन्त्यस्य द्विरुक्तो जो भवति । सव्वङ्गसिज्जिरीए । संपज्जइ । खिज्जइ ॥ बहुवचनं प्रयोगानुसरणार्थम् ॥ [स्विदां ज्जः] स्विद् षष्ठी आम् । ज्ज प्रथमा सि । [सव्वङ्गसिज्जिरीए] सर्वाङ्ग । 'हस्वः संयोगे' (१९८४) ० → ० । 'सर्वत्र ल-व-रामवन्द्रे' (२७९) लुक् । 'अनादौ०' (२।८९) द्वित्वं-व० → व्व० सव्वङ्ग। ___'ष्विदांच गात्रप्रक्षरणे' (११७८) विद् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्विद् । स्विद्यतीत्येवंशीला । 'तृन् शील-धर्म-साधुषु' (५।२।२७) तृन्प्र० । 'शीलाद्यर्थस्येरः' (२।१४५) तृन्० → इर० । 'प्रत्यये ङीनर्वा' (३३१) ङीप्र० ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy