SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ४५२ व्युत्पत्तिदीपिकाभिधान- दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ वोपेन कम्मवः ॥ ८।४।१११ ॥ उपेन युक्तस्य भुजेः कम्मव इत्यादेशो वा भवति ॥ कम्मवइ । उवहुञ्जइ ॥ [ वोपेन कम्मव: ] वा प्रथमा सि । उप तृतीया टा । कम्मव प्रथमा सि । पक्षे - [ उवहुञ्जइ ] उपपूर्व० 'भुजंप् पालना -ऽभ्यवहारयोः' (१४८७) भुज् । वर्त्त० तिव् । 'व्यञ्जना० ' (४।२३९) अत् । ‘लोकात्' (१।१।३) उपभुञ्जति । 'ख-घ-थ-ध-भाम्' (१।१८७) भु० हु० । 'पो वः' (१।२३१) प०व० उहुञ्जइ ॥१११॥ घटेगढः ॥ ८ ।४ । ११२ ॥ घटतेर्गढ इत्यादेशो वा भवति ॥ गढइ । घडइ ॥ [ घटेर्गढ: ] घटि षष्ठी ङस् । गढ प्रथमा सि । पक्षे- [ घडड् ] 'घटिष् चेष्टायाम्' (१०००) घट् । वर्त्त० ते । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात् ' (१|१|३) घटते । 'टो डः' (१।१९५) ट०ड० | 'त्यादीनामाद्य०' ( ३।१३९) ते० इ० घडइ ॥ ११२ ॥ समो गलः ॥ ८|४|११३ ॥ सम्पूर्वस्य घटतेर्गल इत्यादेशो वा भवति ॥ संगलइ । संघड | [ समो गलः ] सम् षष्ठी ङस् । गल प्रथमा सि । पक्षे - [ संघडड् ] सम्पूर्व० 'घटिष् चेष्टायाम् ' (१०००) घट् । वर्त्त० ते । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१|१|३) संघटते । 'टो ड: ' (१।१९५) ट०ड० । 'त्यादीनामाद्य०' (३|१३९) ते० → इ० संघडइ ॥ ११३॥ हासेन स्फुटेर्मुरः ॥ ८|४|११४ ॥ हासेन करणेन यः स्फुटिस्तस्य मुरादेशो वा भवति ॥ मुरइ । हासेन स्फुटति ॥ [ हासेन स्फुटेर्मुरः ] हास तृतीया टा । स्फुटि षष्ठी ङस् । मुर प्रथमा सि ॥११४॥ मण्डेश्चिञ्च चिञ्चअ - चिञ्चिल्ल- रीड - टिविडिक्काः || ८|४|११५ ॥ मण्डतेरेते पञ्चादेशा वा भवन्ति ॥ चिञ्च । चिञ्चअइ । चिञ्चिल्लाइ । रीडइ । टिविडिक्कइ । मण्डइ || [ मण्डेश्चिञ्च-चिञ्चअ - चिञ्चिल्ल- रीड - टिविडिक्का: ] मण्डि षष्ठी ङस् । चिञ्च चिञ्चअ-चिञ्चिल्ल-रीड-टिविडिक्क प्रथमा जस्. । पक्षे [मण्डइ ] 'मडु भूषायाम् ' (२३१) मड् । 'उदित: स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । वर्त्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) मण्डति । 'त्यादीनामाद्य०' (३|१३९) तिव्० इ० मण्डइ । मण्डनं करोतीत्यर्थः ॥११५॥ तुडेस्तोड-तुट्ट-खुट्ट-खुडोक्खुडोल्लुक्क - णिलुक्क लुक्कोल्लूराः ॥ ८|४|११६ ॥ तुडेरेते नवादेशा वा भवन्ति ॥ तोडइ । तुट्टइ । खुट्टइ । खुडइ । उक्खुडइ । उल्लुक्कइ । णिलुक्कइ । लुक्कइ । उल्लूरइ । तुडइ ॥ [तुडेस्तोड तुट्ट-खुट्ट- खुडोक्खुडोल्लुक्क - णिलुक्क लुक्कोल्लूरा: ] तुडि षष्ठी ङस् । तोड तुट्ट - खुट्ट- खुड-उक्खुडउल्लुक्क-णिलुक्क-लुक्क उल्लूर प्रथमा जस् । पक्षे - [ तुडइ ] 'तुडत् तोडने' (१४४७) तुड् । वर्त्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात् ' (१|१|३) तुडति । 'त्यादीनामाद्य०' (३।१३९) तिव्० इ० तुडइ ॥ ११६ ॥
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy