SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ४४० व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ [घटेः परिवाडः] घटि षष्ठी ङस् । परिवाड प्रथमा सि । पक्षे- [घडेइ] 'घटिष् चेष्टायाम्' (१०००) घट । घटमानं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । 'णेरदेदावावे' (३।१४९) णिग्० → एत्० । 'टो डः' (१।१९५) ट० → ड० । 'लोकात्' (१।१।३) घडे० । वर्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० घडेइ ॥५०॥ वेष्टेः परिआलः ॥८॥४५१ ॥ वेष्टेय॑न्तस्य परिआल इत्यादेशो वा भवति ॥ परिआलेइ । वेढेइ । [वेष्टेः परिआलः ] वेष्टि .षष्ठी ङस् । परिआल प्रथमा सि । पक्षे- [वेढेड] 'वेष्टि वेष्टने' (६७३) वेष्ट । वेष्टते कश्चित् तमन्यः प्रयुङ्क्ते । 'प्रयोक्त०' (३।४।२०) णिग्प्र० । 'णेरदेदावावे' (३।१४९) णिग्० → एत्० । 'लोकात्' (१।१।३) वेष्टे० । 'ष्टस्याऽनु०' (२३४) ष्टस्य ठः । 'ठो ढः' (१।१९९) ठे० → ढे० । वर्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० वेढेइ ॥५१॥ क्रियः किणो वेस्तु के च ॥ ८।४५२ ॥ णेरिति निवृत्तम् । क्रीणातेः किण इत्यादेशो भवति । वेः परस्य तु द्विरुक्तः केश्चकारात् किणश्च भवति ॥ किणइ विक्केइ विक्किणइ ॥ [क्रियः किणो वेस्तु के च] क्री-क्रिय षष्ठी ङस् । किण प्रथमा सि । वि पञ्चमी ङसि । तु प्रथमा सि । क्के प्रथमा सि । च प्रथमा सि । विक्रीणातीत्यर्थः ॥५२॥ भियो भा-बीहौ ॥८४५३ ॥ बिभेतेरेतावादेशौ भवतः ॥ भाइ । भाइअं । बीहइ । बीहि ॥ बहुलाधिकारात् भीओ ॥ [भियो भा-बीहौ ] भी-भिय् षष्ठी ङस् । भा-बीह प्रथमा औ । . [भाइअं] 'बिभीक् भये' (११३२) भी । अनेन भी० → भा० । अत्र क्तप्रत्यये 'स्वरादनतो वा' (४।२४०) अत् । 'क्ते (३।१५६) इत्त्वम् भाइअं । [बीहिअं] भी । अनेन बीह० । अत्र क्तप्रत्यये 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'ते' (३।१५६) इ० । 'लुक् (१।१०) अलुक् । 'लोकात्' (१।१।३) बीहित० । 'क-ग-च-ज०' (१।१७७) त्लुक् बीहिअं ॥५३॥ आलीडोऽल्ली ॥८४५४ ॥ आलीयतेः अल्ली इत्यादेशो भवति ॥ 'अल्लिअइ । अल्लीणो । [आलीडोऽल्ली ] आलीङ् षष्ठी ङस् । अल्ली प्रथमा सि । [अल्लिअइ] 'लींच् श्लेषणे' (१२४८) ली, आपूर्व० । 'स्वरादनतो वा' (४।२४०) अत् । अनेन अल्ली० । 'स्वराणां स्वराः' (४।२४०) आल्लि० । 'हुस्वः संयोगे' (१।८४) आ० → अ० अल्लिअइ । आश्लेषं करोतीत्यर्थः । [अल्लीणो] अत्र क्तप्रत्यये 'क्तेनाऽप्फुण्णादयः' (४।२५८) तस्य न० । 'नो णः' (११२२८) न० → ण० अल्लीणो ॥५४॥ १. I. J. अल्लियइ ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy