SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ६०६ व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । [सुमरिज्जइ तं वल्लहउं............] अस्यार्थः- तद्वल्लभं वस्तु स्मर्यते यन्मनाक् विस्मरति । यस्मिन् वस्तुनि पुनः स्मरणं यावद्गतं तस्य स्नेहस्य कि नाम ? न किञ्चिदित्यर्थः । [पुणु ] पुनर् । अनेन डुप्र० → उ० । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) पुनु० । 'नो णः' (१।२२८) पुणुः । [विणु जुज्झें न वलाहुं] पूर्वं लिखितम् । [४।३८६-१] । [विणु] विना । अनेन डुप्र० → उ० । 'डित्यन्त्य०' (२२२११४) आलुक् । 'लोकात्' (१।१।३) विनु० । 'नो णः' (१।२२८) नु० → णु० विणु० ॥४२६।। अवश्यमो डें-डौ ॥ ८।४।४२७ ॥ अपभ्रंशेऽवश्यमः स्वार्थे डें-ड इत्येतौ प्रत्ययौ भवतः ॥ जिर्भिदिउ नायगु वसिकरहु जसु अधिन्नई अन्नई । मूलि विणट्ठइ तुंबिणिहे अवसे सुक्कहि(इं) पण्णइं ॥१॥ अवस न सुअहिं सुहच्छिअहिं ॥२॥ [४।३७६-२] । [अवश्यमो डें-डौ] अवश्यम् षष्ठी ङस् । डें-ड प्रथमा औ । [जिभिदिउ नायगु वसिकरहु..............] जिम्हे(आँ)न्द्रियं वशे(शी)कुरुत । अन्यानीन्द्रियाणि यस्याधीनानि वर्त्तन्ते इति शेषः । तुम्बिन्या मूले विनष्टे अवश्य पर्णानि शुष्कन्तीत्यर्थः । [अवसें] अवश्यम् । अनेन डेंप्र० → एं । 'डित्यन्त्य०' (२।१।११४) अम्लुक् । 'अधो म-न-याम्' (२।७८) य्लुक् । 'श-षोः सः' (१।२६०) श० → स० अवसें । [अवस नसुअर्हि सुहच्छिअहिं] पूर्वं लिखितम् । [४।३७६-२] । [अवस] अवश्यम् । अनेन डप्र० → अ० । 'डित्यन्त्य०' (२।१।११४) अम्लुक् । शेषं पूर्ववत् । अवस ॥४२७॥ एकशसो डिः ॥ ८।४।४२८ ॥ अपभ्रंशे एकशश्शब्दात् स्वार्थे डिर्भवति ॥ एक्कसि सील-कलंकिअहं दिज्जहिं पच्छित्ताई । जो पुणु खंडइ अणुदिअहु तसु पच्छित्ते काई ? ॥१॥ [एकशसो डिः] एकशस् पञ्चमी ङसि । डि प्रथमा सि । १. पंचहँ णायकु वसिकरहु जेण होंति वसि अण्ण । मूल विण?इ तरुवरहँ अवसइँ सुक्कहिं पण्ण ॥ - [प० प्र० - द्वितीयो महाधिकारः- श्लोकः १४०] पञ्चानां नायकं वशीकुरुत येन भवन्ति वशे अन्यानि । मूले विनष्टे तरुवरस्य अवश्यं शुष्यन्ति पर्णानि ॥ २. M. वसि करहु = वशे कुरुत । . वशीकुरु ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy