SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ६०२ व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । [कहिं ससहरु कहिं मयरहरु............] अस्यार्थः- कुत्र शशी ? कुत्र मकरधरः ? कुत्र बी ? कुत्र मेघः ? । दूरस्थितानामपि सज्जनानामसाधारणः स्नेहो भवतीत्यर्थः । [असड्ढलु] असाधारण । अनेन असड्ढल० । प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) असड्ढल० → असड्ढलु। [कुंजरु अन्नहं तरुअरहं........... अस्यार्थ:- कुञ्जरोऽन्येषु तरुवरेषु कौतुकेन हस्तं क्षिपति । मनः पुन एकस्यां सल्लवयां, यदि पृच्छत(थ) परमार्थमित्यर्थः । [कोड्डेण ] कौतुक । अनेन कोड्ड इति । तृतीया टा । 'टा-आमोर्णः' (३६) टा० → ण । 'टाण-शस्येत्' (३।१४) ड्ड० → ड्डे० कोड्डेण । [खेड्डयं कयमम्हेहिं निच्छयं..........] अस्यार्थः- अस्माभिनिश्चयं क्रीडा कृता । किं प्रजल्पत ? । हे स्वामिन् ! अनुरक्ता भक्ताः । अस्मान् मा त्यजेत्यर्थः । [खेड्डयं] क्रीडा । अनेन क्रीडायाः खेड्डः । स्वार्थे कप्र० । प्रथमा सि । 'क-ग-च-ज०' (१११७७) क्लुक्। 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१।२३) अनुस्वारः खेड्डयं। [सरिहिं न सरेहिं न.....................] अस्यार्थ:- सरिद्भिर्नदीभिः सरोभिः सरोवरैर्महत्सरोभिः नाप्युद्यानवनैर्देशा रम्याः । हे वढ ! हे मूर्ख ! निवसद्भिः स्व(सु)जनैर्देशा रम्या भवन्तीत्यर्थः । [रवण्णा ] रम्य । अनेन रम्यस्य रवण्ण इति । प्रथमा जस् । 'जस्-शस्-ङसि०' (३।१२) रवण्ण० → रवण्णा० । 'जस्-शसोलुंक्' (३।४) जस्लुक् रवण्णा । [हिअडा ! पई एहु बोल्लिअउ..........] अस्यार्थ:- हे हृदय ! हे भंडय ! हे निर्लज्ज ! हे अद्भुतसार ! त्वया ममाग्रे एतत् शतवारं जल्पितं, प्रियेण प्रवसता सह स्फुटिष्यामीत्यर्थः । [ढक्करि ] अद्भुत । अनेन अद्भुतस्य ढक्करि० । [हेल्लि ! म झंखहि आलु] पूर्वं लिखितम् । [४।३७९-१] । [हेल्लि !] हे सखि ! । अनेन "हे सखि !" स्थाने हेल्लि !। [एक्क कुडुल्ली पंचहि रुद्धी.........] अस्यार्थ:- एका कुटी शरीरं पञ्चभिरिन्द्रियै रुद्धा, तेषां पञ्चानां पृथक् (२) । हे भगिनि ! कथय तद् गृहं कथं नन्दतु ? । यत्र कुटुम्बमात्मछन्दकमित्यर्थः । [जुअंजुअ] पृथक् (२) । अनेन जुअंजुअ० । १. P. निच्छयं = निःछद्म । २. P. प्रजल्पथ । ३. H. अनुरक्तान् भक्तान् ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy