SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ एवं तिध-जिधावुदाहा? ॥ [केम समप्पउ दुडु दिणु......] अस्यार्थः- दुष्टो दिनः कथं समाप्यताम् ? रात्रिः कथम्भवति ? । छुडु यदि भविष्यतीत्यर्थः । यदि शब्देन भविष्यत्कालः । सोऽपि नववधूदर्शनलालसः । एवंविधान् विशेषो मनोरथान् वहतीत्यर्थः । [केम] कथम् । अनेन "थम्" स्थाने डेम० → एम० इति । 'डित्यन्त्य०' (२२१२११४) अलुक् केम । [किध ] कथम् । अनेन “थम्" स्थाने डिध० → इध० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् किध । [ओ गोरी-मुह-निज्जिअ..........] ओ सूचनायाम् । गौरीमुखनिर्जितको मृगाङ्कोऽभ्रे निलीनः । अन्योऽपि यः परिभूततनुः सो निःशङ्कं कथं भ्रमतीत्यर्थः । [किवं] कथम् । अनेन "थम्" स्थाने डिम० → इम० इति । 'डित्यन्त्य०' (२२१२११४) अलुक् । 'मोऽनुनासिको वो वा' (४।३९७) मस्याऽधो वः किवँ । [बिंबाहरि तणु रयण-वणु.........] अस्यार्थः- हे श्रीआनन्द ! तन्व्या बिम्बाधरे रदनवणं-दन्तव्रणं कथं स्थितम् ? । उत्तरं ददाति-जणु उत्प्रेक्ष्यते । प्रियेण अधरस्य निरुपमं रसं पीत्वा शेषस्य रसस्य मुद्रा दत्ता इत्यर्थः । [किह] कथम् । अनेन "थम्" स्थाने डिह० → इह० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् किह । [भण सहि ! निहुअउं तेवँ मई.........] अस्यार्थ:- हे सखि ! मां प्रति निभृतं-छनं यथास्यात्तथा भण-कथय । यदि त्वया प्रियः सरो(दो)षो दृष्टः । तस्य पक्षापतितं - तस्यान्यनरस्य पार्वे स्थितं मम मनो यथा न जानाति । भर्तेति गम्यते । ममाग्ने तथा त्वया छनं वाच्यमित्यर्थः । [तेवँ] तथा । अनेन "था"स्थाने डेम० → एम० इति । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१२११३) तेम० । 'मोऽनुनासिको वो वा' (४३९७) मस्याऽधो वः तेव।। [जेव] यथा । अनेन "था"स्थाने डेम० → एम० इति । 'डित्यन्त्य०' (२।१२११४) अलुक् । 'लोकात्' (१।१।३) येम० । 'आदेर्यो जः' (१२२४५) येम० → जेम० । 'मोऽनुनासिको वो वा' (४।३९७) मस्याऽधो वः जेवं । [जिव जिव वंकिम लोअणहं......] एकपदम् । यथा (२) । अनेन "था"स्थाने डिम० → इम० इति । 'डित्यन्त्य०' (२२१२११४) अलुक् । 'लोकात्' (१।१।३) यिम० । 'आदेर्यो जः' (१२४५) यिम० → जिम० । 'मोऽनुनासिको वो वा' (४३९७) मस्याऽधो वः जिवं जिवँ । [तिवँ तिवँ वम्मह निअय-सर....] एकपदम् । तथा (२) । अनेन "था"स्थाने डिम० → इम० इति । 'डित्यन्त्य.' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) तिम० । 'मोऽनुनासिको वो वा' (४.३९७) मस्याऽधो वः तिवं तिवें । [मई जाणिउं पिअ ! विरहिअहं........] पूर्व लिखितमेव । [४।३७७-१] । १. 0. छुडु-अव्य० (दे०) यदि "छुडु चीरत्तणु होइ मणूसहो" । यदि मनुष्यमें थोडा धैर्य हो ।
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy