SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ ५७१ [पई मइं बेहिं वि.............] पूर्वं लिखितमेव । [४।३७०-३] । [मई ] अस्मद् । सप्तमी ङि । अनेन ङिना सह अस्मद् → मई० । [मई मेल्लंतहो तुज्झु] पूर्वं लिखितमेव । [४।३७०-४] । [ मई] अस्मद् । द्वितीया अम् । अनेन अमा सह अस्मद् → मई० ॥३७७॥ अम्हेहि भिसा ॥८।४।३७८ ॥ अपभ्रंशे अस्मदो भिसा सह अम्हेहिं इत्यादेशो भवति ॥ तुम्हेहिं अम्हेहिं जं किअउं........[४।३७१-१] । । [अम्हेहिं भिसा] अम्हेहिं प्रथमा सि । भिस् तृतीया टा । [तुम्हेहिं अम्हेहिं जं किअउं] पूर्व लिखितमेव । [४॥३७१-१] । [अम्हेहिं] अस्मद् । तृतीया भिस् । अनेन भिसा सह अस्मद् → अम्हेहिं० ॥३७८॥ __ महु-मज्झु डसि डस्भ्याम् ॥ ८।४।३७९ ॥ अपभ्रंशे अस्मदो ङसिना ङसा च सह प्रत्येकं महु-मज्झु इत्यादेशौ भवतः ॥ महु होतउ गदो । मज्झु होतउ गदो ॥ महु कंतहो बे दोसडा हेल्लि ! म झलहि आलु । देंतहो हउं पर उव्वरिअ जुज्झंतहो करवालु ॥१॥ जई भग्गा पारक्कडा तो सहि ! मज्झु पिएण । अह भग्गा अम्हहं तणा तो तें मारिअडेण ॥२॥ [महु-मज्झु डसि-डस्भ्याम् ] महु-मज्झु प्रथमा औ । ङसि-ङस् तृतीया भ्याम् । [मह होतउ गदो । मज्झ होतउ गदो] अस्मद् भवन् गतः । अस्मद् (२) । पञ्चमी ङसि । अनेन ङसिना सह अस्मद् → महु० - मज्झु० । [महु कंतहो बे दोसडा...... अस्यार्थः- हे हल्लि ! हे सखि ! मम कान्तस्य द्वौ दोषौ स्तः । अनर्थकं मा जल्प । कौ द्वौ दोषौ ? तदाह - एकस्तावद् दानं ददतः सतः पर-केवलमहमुद्वरिता । अपरस्तावद् युध्यतः खड्गमुद्वरितमिति । निन्दा-स्तुतिरित्यर्थः । [महु] अस्मद् । षष्ठी ङस् । अनेन ङसा सह अस्मद् → महु० । [जइ भग्गा पारक्कडा.................] अस्यार्थः- हे सखि ! यदि परकीया भग्नास्ततो मम प्रियेण । अथ अस्माकं सम्बन्धिनश्चेद्भग्नास्ततस्तेन मम भर्ता मारितेनैव इत्यर्थः । [मज्झु] अस्मद् । षष्ठी ङस् । अनेन ङसा सह अस्मद् → मज्झु० ॥३७९॥ १. जइ भग्गा पारकडा तो सखि मुज्झ पियेण । जो भग्गा अम्हेतणा तो तिह जुञ्जयडेण ॥ [रा० दो०]
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy