SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ५५४ व्युत्पत्तिदीपिकाभिधान- दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । [ संगर-सएहिं जु वण्णिअइ........] अस्यार्थः- हे सखीति गम्यते । तं मदीयं कान्तं पश्य । यः संग्रामशतेषु वर्ण्यते । किंकुर्वन्तं ? अतिमत्तानां त्यक्ताऽङ्कुशानां गजानां कुम्भान् दारयन्तमित्यर्थः । [गय ] गज । षष्ठी आम् । 'क-ग-च-ज०' (११७७) ज्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० य० । अनेन आम्लुक् गय ॥ ३४५॥ आमन्त्र्ये जसो होः ॥ ८।४।३४६ ॥ अपभ्रंशे आमन्त्र्येऽर्थे वर्तमानान्नाम्नः परस्य जसो हो इत्यादेशो भवति ॥ लोपाऽपवादः ॥ तरुणहो ! तरुणिहो ! मुणिउ मई करहु म अप्पो घाउ ॥ १ ॥ [ आमन्त्र्ये जसो हो: ] आमन्त्र्य सप्तमी ङि । जस् षष्ठी ङस् । हो प्रथमा सि । [ तरुणहो ! तरुणिहो ! मुणिउ मई करहु म अप्पहो घाउ ] ॥ द्विपदम् ॥ अस्यार्थः- हे तरुणाः ! हे तरुण्यः ! मया ज्ञातं, आत्मनो घातं मा कुरुत इत्यर्थः । [ तरुणहो ! ] तरुण । प्रथमा जस् । अनेन जस्० → हो० तरुणहो ! । [ तरुणिहो ! ] तरुणी । प्रथमा जस् । अनेन जस्० हो० तरुणिहो ! ||३४६ ॥ भिस्पोर्हि || ८|४|३४७ ॥ अपभ्रंशे भिस्सुपोः स्थाने हिं इत्यादेशो भवति ॥ ॥ भिस् ॥ गुणहिं न संपय कित्ति पर..... [४|३३५] । ॥ सुप् ॥ भाईरहि जिवँ भारइ मग्गेहिं तिहिं वि पट्ट ॥१॥ [ भिस्सुपोर्हि ] भिस्-सुप् षष्ठी ओस् । हिं प्रथमा सि । [ गुणहिं न संपय कित्ति पर......] पूर्वं लिखितम् । [४।३३५ ] । [ भाईरहि जिवँ भारइ मग्गेहिं तिहिं वि पयट्टइ ] ॥ गद्य ॥ अस्यार्थः- यथा भागीरथी गङ्गा त्रिषु मार्गेषु प्रवर्तते तथा भारत्यपि उत्पाद - व्यय - ध्रौव्यात्मकेषु त्रिषु मार्गेषु प्रवर्तते इत्यर्थः । [ मग्गेहिं] मार्ग । सप्तमी सुप् । 'ह्रस्वः संयोगे' (१।८४) मा० म० । 'सर्वत्र ल - व० ' (२७९) लुक् । 'अनादौ ०' (२२८९) गस्य द्वित्वम् । 'भिस् - भ्यस् - सुपि' (३।१५) एत्त्वं ग्गग्गे० । अनेन सुप्० हिं० मग्गेहिं । ->>> हिं० तिहिं ॥३४७॥ [तिर्हि ] त्रि । सप्तमी सुप् । 'सर्वत्र ल-व० ' (२७९) लुक् । अनेन सुप्० स्त्रियां जस्-शसोरुदोत् ॥ ८।४।३४८ ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य जसः शसश्च प्रत्येकमुदोतावादेशौ भवतः ॥ लोपाऽपवादौ ॥ ॥ जसः ॥ अंगुलिउ जज्जरियाउ नहेण ॥१॥ ॥ शसः ॥ सुंदर- सव्वंगाउ विलासिणीओ पेच्छंताण ||२||
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy