SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ ५३५ अतो डसेर्डातो-डातू ॥ ८।४।३२१ ॥ पैशाच्यामकारात्परस्य ङसेडितौ आतो-आतु इत्यादेशौ भवतः ॥ ताव च तीए दूरातो य्येव तिट्ठो दूरातु । तुमातो तुमातु । ममातो ममातु ॥ [अतो डसेर्डातो-डातू ] अत् पञ्चमी ङसि । ङसि षष्ठी ङस् । डातो-डातु प्रथमा औ । [ताव च तीए दूरातो य्येव तिवो दूरातु ] दूर (२) । पञ्चमी ङसि । अनेन ङसिस्थाने डातो० → आतो० - डातु० → आतु० । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१२३) दूरातो दूरातु । तावच्च तया दूरत एव दृष्ट इत्यर्थः । [तुमातो तुमातु ] युष्मद् (२) । पञ्चमी ङसि । 'तइ-तुव-तुम-तुह-तुब्भा ङसौ' (३।९६) युष्मद् → तुम० । अनेन ङसिस्थाने डातो० → आतो०- डातु० → आतु० । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) तुमातो तुमातु । [ममातो ममातु] अस्मद् (२) । पञ्चमी ङसि । 'मइ-मम-मह-मज्झा ङसौ' (३।१११) अस्मद् → मम० । अनेन ङसिस्थाने डातो० → आतो० - डातु० → आतु० । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) ममातो ममातु ॥३२१॥ तदिदमोष्टा नेन स्त्रियां तु नाए ॥ ८।४।३२२ ॥ पैशाच्यां तदिदमोः स्थाने टाप्रत्ययेन सह नेन इत्यादेशो भवति, स्त्रीलिङ्गे तु नाए इत्यादेशो भवति ॥ तत्थ च नेन कतसिनानेन ॥ स्त्रियाम्-पूजितो च नाए पातग्ग-कुसुम-प्पतानेन ॥ टेति किम् ? एवं चिन्तयन्तो गतो सो ताए समीपं ॥ [तदिदमोष्टा नेन स्त्रियां तु नाए] तदिदम् षष्ठी ओस् । टा-नेन प्रथमा सि । स्त्री सप्तमी ङि । तु प्रथमा सि । नाए प्रथमा सि । [तत्थ च नेन कतसिनानेन ] तत्र । 'त्रपो हि-ह-त्थाः' (२।१६१) त्रस्य स्थ० तत्थ । तद्-इदम् । तृतीया टा । अनेन नेन । कृतस्नान । तृतीया टा। 'र्य-स्न-ष्टां रिय-सिन-सटाः क्वचित्' (४।३१४) स्ना० → सिना० । 'टा-आमोणः' (३।६) टा० → ण । 'टाण-शस्येत्' (३।१४) न० → ने० । 'णो नः' (४।३०६) ण० → न० । 'ऋतोऽत्' (१।१२६) कृ० → क० कतसिनानेन । [पूजितो च नाए पातग्ग-कुसुम-प्पतानेन ] पादाग्रकुसुमप्रदानेन । सुगमम् । पातग्ग-कुसुम-प्पतानेन । [एवं चिन्तयन्तो गतो सो ताए समीपं] तद् । षष्ठी ङस् । 'अन्त्यव्य०' (१२११) द्लुक् । 'आत्' (२।४।१८) आप्प्र० → आ० । 'टा-ङस्-उ०' (३।२९) ङस्० → ए० ताए ॥३२२॥ शेषं शौरसेनीवत् ॥८।४।३२३ ॥ पैशाच्यां यदुक्तं ततोऽन्यच्छेषं पैशाच्यां शौरसेनीवद् भवति । अध ससरीरो भगवं मकरधओ एत्थ परिब्भमन्तो हुवेय्य । एवंविधाए भगवतीए कधं ताप(व)स-वेस-गहनं कतं ? | एतिसं अतिट्ठ-पुरवं महाधनं तळून । भगवं यदि मं वरं पयच्छसि । रायं च दाव लोक । ताव च तीए दूरातो य्येव तिट्ठो सो आगच्छमानो राजा ॥
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy