SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य प्रथमः पादः ॥ अस्यार्थ:- एके लघुकस्वभावा गुणान् लब्ध्वा धनऋद्धि महन्ति-वाञ्छन्ति । अन्ये विपुलस्वभावा विभवैर्गुणान् मागर्यन्तीत्यर्थः । [विहवेहिं] विभव । तृतीया भिस् । 'ख-घ-थ-ध-भाम्' (१।१८७) भस्य हः । 'भिस्भ्यस्सुपि' (३।१५) एत्वं-व० → वे० । 'भिसो हि-हि-हिं' (३७) भिस्० → हिं० विहवेहिं । [मग्गंति ] 'मार्गण अन्वेषणे' (१९५०) मार्ग । वर्त० अन्ति । 'चुरादि०' (३।४।१७) णिचप्र० । 'बहुष्वाद्यस्य न्तिन्ते-इरे' (३।१४२) अन्ति० → न्ति० । 'णेरदेदावावे' (३।१४९) णिच्० → अत्० । 'हुस्वः संयोगे' (१९८४) मा० → म० । 'सर्वत्र०' (२१७९) लुक् । 'अनादौ०' (२।८९) गस्य द्वित्वं मग्गंति । यदा तु 'मृगणि अन्वेषणे' (१९३०) मृग । 'चुरादि०' (३।४।१७) णिचप्र० । वर्त० अन्ते । 'अतः' (४।३।८२) अलोप: । 'बहुष्वाद्य०' (३।१४२) न्ति० । 'ऋतोऽत्' (१।१२६) मृ० → म० । 'शकादीनां द्वित्वम्' (४।२३०) गस्य द्वित्वं मग्गंति । [देवाणि देवा ] देव (२) । प्रथमा जस् । 'जस्-शस ई - इं०' (३।२६) जस्० → णि० -पूर्वस्य च दीर्घः । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः देवाणि देवा । [बिन्दूई बिन्दुणो] बिन्दु (२) । प्रथमा जस् । 'जस्-शस इ-इं०' (३।२६) जस्० → इं० - पूर्वस्य च दीर्घः । द्वितीये 'जस्-शसो:' (३।२२) जस्० → णो० बिन्दूई बिन्दुणो । [खग्गं खग्गो] खड्ग (२) । 'क-ग-ट-ड०' (२७७) लुक् । 'अनादौ०' (२।८९) गस्य द्वित्वम् । प्रथमा सि। अनेन वा क्लीबत्वम् । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः । द्वितीये 'अतः सेझैः' (३।२) सि० → डो० → ओ० खग्गं खग्गो । [मण्डलग्गं मण्डलग्गो] मण्डलाग्र (२) । प्रथमा सि । 'हस्वः संयोगे' (१९८४) ला० → ल० । 'सर्वत्र०' (२१७९) लुक् । 'अनादौ०' (२२८९) गस्य द्वित्वम् । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः। द्वितीये 'अत: सेझैः' (३२) सि० → डो० → ओ० मण्डलग्गं मण्डलग्गो । [कररुहं कररुहो ] कररुह (२) । प्रथमा सि । 'क्लीबे०' (३।२५) सि० →म् । 'मोऽनु०' (१२३) अनुस्वारः । द्वितीये 'अतः से?:' (३।२) सि० → डो० → ओ० । “डित्यन्त्य०' (२।१।११४) अलुक् कररुहं कररुहो । [रुक्खाइं रुक्खा ] वृक्ष (२) । 'वृक्ष-क्षिप्तयो रुक्ख-छूढौ' (२।१२७) वृक्षस्य रुक्ख आदेशः । प्रथमा जस् । अनेन वा क्लीबत्वम् । यत्र क्लीबत्वं तत्र 'जस्-शस इ-इं०' (३।२६) जस्० → ई -पूर्वस्य च दीर्घः । अन्यत्र पुंसि । जस्- . शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः रुक्खाइं रुक्खा । इति गुणादयः समाप्ताः ॥३४॥ वेमाञ्जल्याद्याः स्त्रियाम् ॥ ८।१।३५ ॥ इमान्ता अञ्जल्यादयश्च शब्दाः स्त्रियां वा प्रयोक्तव्याः ।। एसा गरिमा एस गरिमा । एसा महिमा एस महिमा । एसा निल्लज्जिमा एस निल्लज्जिमा । एसा धुत्तिमा एस धुत्तिमा। अञ्जल्यादि - एसा अञ्जली एस अञ्जली । पिट्टी पिढें । पृष्ठमित्वे कृते स्त्रियामेवेत्यन्ये । अच्छी अच्छि । पण्हा पण्हो । चोरिआ चोरिअं॥
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy