SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३६२ व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥ [इमिआ वाणिअधूआ] इदम् । प्रथमा सि । अनेन वा स्त्रीलिङ्गे इदम् → इमिआ आदेशः । 'अन्त्यव्य०' (११११) स्लुक् इमिआ । वाणिजदुहितृ । प्रथमा सि । 'क-ग-च-ज०' (१।१७७) ज्लुक्। 'दुहितृ-भगिन्योधूआ-बहिण्यौ' (२।१२६) दुहितृ० → धूआ० इति । 'अन्त्यव्य०' (१।११) स्लुक् वाणिअधूआ । एषा वाणिजदुहितेत्यर्थः । पक्षे__ [इमो] इदम् । प्रथमा सि । 'इदम इमः' (३।७२) इदम् → इम० । 'अतः सेझैः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् इमो । _ [इमा ] इदम् । प्रथमा सि । 'इदम इमः' (३७२) इदम् → इम० । 'आत्' (२।४।१८) आप्प्र० → आ । 'अन्त्यव्य०' (१।११) स्लुक् इमा ॥७३॥ स्सि-स्सयोरत् ॥ ८॥३७४ ॥ इदमः स्सि-स्स इत्येतयोः परयोरद्वा भवति ॥ अस्सि । अस्स । पक्षे- इमादेशोऽपि-इमस्सि । इमस्स । बहुलाधिकारादन्यत्रापि भवति - एहि । एसु । आहि ॥ एभिः । एषु । आभिरित्यर्थः ।। [स्सिस्सयोरत ] स्सि-स्स सप्तमी ओस् । अत् प्रथमा सि । [अस्सि ] इदम् । सप्तमी ङि । 'उ: स्सि-म्मि-त्थाः' (३५९) ङि० → स्सि० । अनेन वा इदम् → अ० अस्सि। [अस्स] इदम् । षष्ठी ङस् । 'ङसः स्सः' (३।१०) ङस्० → स्स० । अनेन वा इदम् → अ० अस्स । पक्षे [इमस्सि] इदम् । सप्तमी ङि । '. स्सि-म्मि-त्थाः' (३५९) ङि० → स्सि० । 'इदम इमः' (३७२) इदम् → इम० इमस्सि । [इमस्स ] इदम् । षष्ठी ङस् । ‘ङसः स्सः' (३।१०) ङस्० → स्स० । 'इदम इमः' (३७२) इदम्० → इम० इमस्स । बहुलाधिकारात् स्सि-स्सयोविनाऽन्यत्रापि अदादेशो भवति । यथा [एहि] इदम् । तृतीया भिस् । 'भिसो हि-हिँ-हिं' (३७) भिस्० → हि० । अनेन इदम् → अ० । 'भिस्-भ्यस्सुपि' (३।१५) एत्त्वं एहि ।। [ एसु] इदम् । सप्तमी सुप् । अनेन इदम्० → अ० । 'भिस्-भ्यस्-सुपि' (३।१५) एत्त्वं एसु । [आहि] इदम् । तृतीया भिस् । 'भिसो हि-हि-हिं' (३७) भिस्० → हि० । अनेन इदम् → अ० । 'आत्' (२।४।१८) आप्प्र० → आ आहि ॥७४॥ डेर्मेन हः ॥८।३७५ ॥ इदमः कृतेमाऽऽदेशात् परस्य : स्थाने मेन सह ह आदेशो वा भवति ॥ इह । पक्षे-इमस्सि । इमम्मि ॥ [ङेमेंन हः ] ङि षष्ठी ङस् । म तृतीया टा । ह प्रथमा सि । [इह] इदम् । सप्तमी ङि । ‘इदम इमः' (३७२) इदम् → इम० । अनेन वा मकारेण सहैव ङिस्थाने इह । पक्षे [इमस्सि ] इदम् । सप्तमी ङि । 'इदम इमः' (३।७२) इदम् → इम० । 'के स्सि-म्मि-त्थाः' (३५९) ङि० → स्सि० इमस्सि।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy