SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य तृतीयः पादः ॥ ३५९ ___णं पेच्छ । तं पश्येत्यर्थः ॥ सोअइ अ णं रहुवई। तमित्यर्थः ॥ स्त्रियामपि - हत्थुन्नामिअ - मुही णं तिअडा । तां त्रिजटेंत्यर्थः ।। णेण भणिअं । तेन भणितमित्यर्थः ॥ तो णेण करयलट्ठिआ । तेनेत्यर्थः ॥ भणिअं च णाए । तयेत्यर्थः ॥ णेहिं कयं । तैः कृतमित्यर्थः ॥ णाहिं कयं । ताभिः कृतमित्यर्थः ॥ [तदो णः स्यादौ क्वचित् ] तद् षष्ठी ङस् । ण प्रथमा सि । स्यादि सप्तमी ङि । क्वचित् प्रथमा सि । [णं पेच्छ] तद् । द्वितीया अम् । अनेन तद् → ण । 'अमोऽस्य' (३.५) अलुक्-अम्० → म्० । 'मोऽनुस्वारः' (१२२३) अनुस्वारः णं । पेच्छ पूर्ववत् [३।२८] । [सोअइ अ णं रहुवई ] 'शुच शोके' (९९) शुच् । वर्त्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) शुच० । 'श-षोः सः' (१।२६०) शु० → सु० । 'युवर्णस्य गुणः' (४।२३७) सु० → सो० । 'क-ग-च-ज०' (१११७७) च्लुक् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० सोअइ । णं पूर्ववत् । रघुपति । प्रथमा सि । 'ख-घ-थ-ध-भाम्' (१।१८७) घु० → हु० । 'पो वः' (१२२३१) प० → व० । 'क-गच-ज०' (१।१७७) त्लुक् । 'अक्लीबे सौ' (३।१९) दीर्घः - इ० → ई० । 'अन्त्यव्यः' (१।११) स्लुक् रहुवई। तो विलविअनित्थाम गलंतहिययपरिसुन्नलोअणजुयलं । महुरं आसासंती हत्थुन्नामियमुही भणइ णं तिअडा ॥१॥ अस्या व्याख्या - हस्तेन उन्नामितमूर्वीकृतं मुखं यया सा, एवंविधा त्रिजटा-रावणभगिनी तां शी(सी)तां मधुरं यथा स्यात्तथा आसासंती वर्त्तते, किंविशिष्टां शी(सी)तां? विलपितेन निस्थामा-कृशा विलपितनिस्थामा, ताम्, पुनः किंविशिष्टां? गलित(गल)हृदयपरिशून्यलोचनयुगलां इति गाथार्थः ॥१॥ [हत्थुन्नामिअमुही] हस्तोन्नामितमुखी । प्रथमा सि । 'स्तस्य थोऽसमस्त-स्तम्बे' (२०४५) स्तो० → थो० । 'हस्वः संयोगे' (१९८४) थो० → थु० । 'अनादौ०' (२।८९) थस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वथस्य तः । 'क-गच-ज०' (११७७) त्लुक् । 'ख-घ-थ०' (१।१८७) खी० → ही० । 'अन्त्य०' (१।११) स्लुक् हत्थुन्नामिअमुही। _[णं] तद् । द्वितीया अम् । 'अन्त्यव्यः' (१।११) द्लुक् । अनेन स्त्रियामपि तस्य ण:- णा इति । 'इस्वोऽमि' (३।३६) ण० । 'अमोऽस्य' (३५) अलुक् । 'मोऽनु०' (१।२३) अनुस्वारः णं । [तिअडा] त्रिजटा । प्रथमा सि । 'सर्वत्र ल-व-रामवन्द्रे' (२७९) लुक् । 'क-ग-च-ज०' (१।१७७) ज्लुक् । 'टो डः' (१।१९५) टा० → डा० । 'अन्त्यव्य०' (१।११) स्लुक् तिअडा । [णेण भणिअं] तद् । तृतीया टा । 'अन्त्यव्य०' (१।११) लुक् । अनेन तस्य ण० । 'टा-आमोर्णः' (३६) टा० → ण । 'टाण-शस्येत्' (३।१४) एत्त्वं - ण० → णे० णेण । भणितं । 'क-ग-च-ज०' (१।१७७) त्लुक् भणिअं । १. सोअइ अ णं रहुवई विरलाङ्गलिगलिअकिरणधारावअरम् । वअणे विमलुज्जो दररोत्तूण सलिलञ्जलिं व णिमेन्तो । [से० ब० - ११४१] शोचति चैनं रघुपतिविरलाङ्गलिगलितकिरणधाराप्रकरम् । वदने विमलोद्योतं दररुदित्वा सलिलाञ्जलिमिव नियोजयत् ॥ २. [से० ब० - ११३८७] ततो विलपितनिस्पन्दां गलद्धृदयपरिशून्यलोचनयुगलाम् । मधुरमाश्वासयन्ती हस्तोन्नामितमुखी भणत्येनां त्रिजटा ॥ ३. पाठां० - से० ब० - णिप्फन्दं ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy