SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य प्रथमः पादः ॥ विंशत्यादेर्लुक् ॥ ८।१।२८ ॥ विंशत्यादीनामनुस्वारस्य लुग् भवति । विंशतिः → वीसा । त्रिंशत् → तीसा । संस्कृतं → सक्यं । संस्कारः → सक्कारो इत्यादि । [विंशत्यादेर्लुक्] विंशतिरादिर्यस्याऽसौ विंशत्यादिः, तस्य = विंशत्यादेः । षष्ठी ङस् । लुक् प्रथमा सि । [वीसा] विंशति । प्रथमा सि । अनेन अनुस्वारलुक् । 'श-षोः सः' (१।२६०) श० २ स० । 'ईर्जिह्वा-सिंह-विंशविंशतौ त्या' (१२९२) त्या सह वि० → वी० । 'आत्' (२।४।१८) आप्प्र० → आ । 'अन्त्यव्य०' (१।११) स्लुक्वीसा। [तीसा] त्रिंशत् । प्रथमा सि । 'अन्त्यव्य०' (१।११) त्लुक् । अनेन अनुस्वारलुक् । 'सर्वत्र०' (२७९) लुक् । 'ईजिह्वा-सिंह-त्रिंश०' (१।९२) ति० → ती० । 'श-षोः सः' (१।२६०) श० → स० । 'आत्' (२।४।१८) आप्प्र० → आ । 'अन्त्य०' (१।११) स्लुक् तीसा । [ सक्कयं ] संस्कृत । प्रथमा सि । अनेन अनुस्वारलुक् । 'क-ग-ट-ड०' (२७७) स्लुक् । 'ऋतोऽत्' (१।१२६) कृ० → क० । 'अनादौ०' (२१८९) कस्य द्वित्वम् । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अस्य यः । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः सक्क्यं । ___ [सक्कारो] संस्कार । प्रथमा सि । अनेन अनुस्वारलुक् । 'क-ग-ट-ड०' (२७७) स्लुक् । 'अनादौ०' (२।८९) कस्य द्वित्वम् । 'अतः से?:' (३।२) सि० → डो० → ओ० सक्कारो ॥२८॥ मांसाऽऽदेर्वा ॥ ८।१।२९ ॥ मांसाऽऽदीनामनुस्वारस्य लुग् वा भवति ॥ मासं मंसं । मासलं मंसलं । कासं कंसं । पासू पंसू । कह कहं । एव एवं । नूण नूणं । इआणि इआणि । दाणि दाणि । कि करेमि कि करेमि । समुहं संमुहं । केसुअंकिंसुअं। सीहो सिंघो ॥ मांस । मांसल । कांस्य । पांसु । कथम् । एवम् । नूनम् । इदानीम् । संमुख । किंशुक । सिंह इत्यादि । [मांसाऽऽदेर्वा ] मांसाऽऽदि षष्ठी ङस् । वा प्रथमा सि । [मासं मंसं ] मांस (२) । प्रथमा सि । अनेन वा अनुस्वारलुक् । द्वितीये 'मांसाऽऽदिष्वनुस्वारे' (१७०) हुस्वत्वम्मां० → मं० । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनुस्वारः' (१९२३) अनुस्वारः मासं मंसं । - [मासलं मंसलं] मांसल (२) । प्रथमा सि । अनेन वा अनुस्वारलुक् । द्वितीये 'मांसाऽऽदि०' (१९७०) इस्वत्वम् - मां० → मं० । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनु०' (१९२३) अनुस्वारः मासलं मंसलं । [कासं कंसं ] कांस्य (२) । प्रथमा सि । अनेन वा अनुस्वारलुक् । 'अधो म-न-याम्' (२७८) यलुक् । 'मांसाऽऽदि०' (१९७०) कां० → कं० । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः कासं कंसं । [पासू पंसू] पांशु (२) । प्रथमा सि । अनेन वा अनुस्वारलुक् । 'मांसाऽऽदि०' (१७०) हुस्वत्वम्-पां० → पं० । 'श-षोः सः' (१।२६०) शु० → सु० । 'अक्लीबे सौ' (३।१९) दीर्घः - सु० → सू० । 'अन्त्यव्य०' (१।११) स्लुक् पासू पंसू । [कह कहं ] कथम् (२) । प्रथमा सि । 'मोऽनु०' (१।२३) अनुस्वारः । अनेन वा अनुस्वारलुक् । 'ख-घ-थ०' (१।१८७) थस्य हः । 'अव्ययस्य' (३।२७) सिलुप् कह कहं ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy