SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ३०२ व्युत्पत्तिदीपिकाभिधान- दुण्डिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । इ-जे-रा: पादपूरणे ॥। ८।२।२१७ ॥ इ-जे -र इत्येते पादपूरणे प्रयोक्तव्याः ॥ न उणा इ अच्छी । 'अणुकूलं वोत्तुं जे । गेण्हइ र कलमगोवी ॥ अहो । हंहो । हो । हा । नाम । अहह । ही सि । 'अयि । अहाह । अरि । रि । हो इत्यादयस्तु संस्कृतसमत्वेन सिद्धाः ॥ [ इजेरा: पादपूरणे ] इ-जे र प्रथमा जस् । पादपूरण सप्तमी ङि । [न उणा इ अच्छीई ] न पुनर् । 'अन्त्य० ' (१।११) लुक् । 'क-ग-च- ज० ' (१।१७७) प्लुक् । 'नो णः' (१।२२८) न० ण० । 'नात् पुनर्यादा० ' (१।६५) ण० णा० उणा । इ इति पादपूरणे । अक्षि । प्रथमा जस् । 'क्षः खः क्वचित्तु०' (२।३) ('छोऽक्ष्यादौ ' (२।१७))। क्षि० छि० । 'अनादौ०' (२२८९) छस्य द्वित्वम् । 'द्वितीय - तुर्ययो० ' (२९०) पूर्वछस्य च: । 'जस् - शस इं- इं-णयः सप्राग्दीर्घा:' ( ३।२६) जस्० → णि० ( इं ) - पूर्वस्य च दीर्घः - च्छि० च्छी अच्छीणि( इं ) । [ अणुकूलं वोत्तुं जे] अनुकूल । प्रथमा सि । 'नो णः' (१।२२८) नु० णु० । 'क्लीबे० ' ( ३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः अणुकूलं । 'वचंक् परिभाषणे' (१०९६) वच् । तुम्प्र० । 'वचो वोत्' (४।२११) वच्० → वोत्० । 'मोऽनु० ' (१।२३) अनुस्वारः वोत्तुं । जे इति पादपूरणे । [ गेहइ र कलमगोवी ] 'ग्रहीश् उपादाने' (१५१७) ग्रह । 'ग्रहो वल- गेण्ह-हर-पङ्ग०' (४।२०९) ग्रह० गेण्ह० इति आदेशः । वर्त्तमाना तिव् । 'त्यादीनामा०' (३|१३९) तिव्० → इ० गेण्हइ । र पूरणार्थे पादस्य । कलमगोपी । 'पो वः' (१।२३१) पी० → वी० । प्रथमा सि । 'अन्त्यव्य ० ' (१।११) स्लुक् कलमगोवी ||२१७|| प्यादयः || ८।२।२१८ ॥ प्यादयो नियताऽर्थवृत्तयः प्राकृते प्रयोक्तव्याः ॥ पि-वि अप्यर्थे ॥२१८॥ इति श्रीबृहत्तपागच्छे श्री श्री श्री श्रीसौभाग्यसागरसूरिशिष्य- भुजिष्यहर्षकुलपण्डितवचःप्राप्तप्रयोगरहस्येन उदयसौभाग्यगणिना लिखितायां हैमप्राकृतवृत्तिदुण्ढिकायां व्युत्पत्तिदीपिकाभिधानायां सर्वप्रयोगविशेषव्युत्पत्तिप्रकाशिकायां द्वितीयः पादः समर्थितः ॥ - द्विषत्पुरक्षोदविनोदहेतोर्भवादवामस्य भवद् भुजस्य । अयं विशेषो भुवनैकवीर ! परं न यत्काममपाकरोति ॥ १ ॥ १. अणुंऊलं वोत्तुं जे दोडं अइवल्लहं पि वेसे वि । कुवियं च पसाएउ सिक्खंड लोओ तुमाहितो ॥ [ गा० को० ६ ५७ । अनु० अङ्कः -६६ ] अलं चि वतुं । २. बहुवल्लह वल्लहे वि वेसे वि । ३. सिक्ख । २. I. J. हीसि । ३. । अपि । १. पाठां० - गा० को० अनुकूलं वक्तुं यद् दातुमतिवल्लभमपि द्वेष्येऽपि । कुपितं च प्रसादयितुं शिक्षतां लोकस्त्वत्तः ॥
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy