SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य द्वितीयः पादः ॥ २७१ घृष्टशब्दस्य तु सोपसर्गस्य प्रयोग इष्यत एव । मन्दर-यड-परिघटुं । तद्दिअस-निहट्ठाणङ्ग इत्यादि । आर्षे तु यथादर्शनं सर्वमविरुद्धम् ॥ यथा - घट्ठा । मट्ठा । विउसा । सुअ-लक्खणाणुसारेण । वक्वन्तरेसु अ पुणो इत्यादि । [गोणादयः] गोण आदौ येषां ते = गोणादयः । प्रथमा जस् । [गोणो] गो । अनेन गोण इति निपातः । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० गोणो । __ [गावी ] गो । अनेन गाव इति निपातः । 'अजातेः पुंसः' (३।३२) ङीप्र० → ई० इति । 'लोकात्' (१।१।३) गावी। प्रथमा सि । 'अन्त्य०' (११११) स्लुक् गावी । [गावीओ] गो । प्रथमा जस् । अनेन गाव आदेशः । 'अजातेः पुंसः' (३।३२) ङीप्र० → ई० इति । 'लोकात्' (१।१।३) गावी । 'स्त्रियामुदोतो वा' (३।२७) जस्० → उ० अथवा ओ० गावीओ। [बइलो] बलीवर्द । अनेन बइल्ल आदेशः । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० बइल्लो । [आऊ] आपः । अनेन आप:० → आउ० । प्रथमा जस् । 'जस्-शस्-ङसि०' (३।१२) उ० → ऊ । 'जस्शसोलुंक्' (३।४) जस्लुक् आऊ । [पञ्चावण्णा पणपन्ना] पञ्चपञ्चाशत् । अनेन पञ्चपञ्चाशत् → पञ्चावण्णा पणपन्ना च इति निपातः । पञ्चावण्णा पणपन्ना। [ तेवण्णा] त्रिपञ्चाशत् । अनेन तेवण्णा इति निपातः । तेवण्णा । [तेआलीसा] त्रिचत्वारिंशत् । अनेन तेआलीसा इति निपातः । तेआलीसा । [विउसग्गो] व्यत्सर्ग । अनेन व्यु० → विउ० इति निपातः । 'क-ग-ट-ड-त०' (२१७७) त्लुक् । 'सर्वत्र ल-व०' (२।७९) लुक् । 'अनादौ०' (२।८९) गस्य द्वित्वम् । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० विउसग्गो। [वोसिरणं] व्युत्सर्जन । 'सृजो र:' (४।२२९) र्जस्य रः । 'नो णः' (१।२२८) नस्य णः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः । शेषं अनेन निपात्यते । वोसिरणं । [बहिद्धा ] बहिस् अथवा मैथुन । अनेन बहिद्धा इति निपातः । बहिद्धा । [णामुक्कसिअं] कार्यम् । अनेन णामुक्कसिअं इति निपातः । णामुक्कसि। [कत्थइ ] क्वचित् । अनेन कत्थइ इति निपातः । कत्थइ । [मुव्वहइ] उद्वहति । अनेन निपातत्वात् आदौ "म्" इति निपातः । 'लोकात्' (१११३) मुद्वहति । 'क-ग-ट-ड०' (२१७७) द्लुक् । 'अनादौ०' (२१८९) वस्य द्वित्वम् । 'त्यादीनामाद्य०' (३।१३९) ति० → इ० मुव्वहइ । [वम्हलो] अपस्मार । अनेन अपस्मार० → वम्हल० इति निपातः । प्रथमा सि । 'अतः सेोंः' (३३२) सि० → डो० → ओ० वम्हलो-उन्मादरोग इत्यर्थः । [कन्दुटुं ] उत्पल । अनेन कन्दुट्ट इति निपातः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः कन्दुटुं ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy