SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य द्वितीयः पादः ॥ २६७ 'कुत्सिता-ऽल्पा-ऽज्ञाते' (७३।३३) इत्यनेन यः कप्प्रत्ययः समेति स तु कुत्सादिविषये संस्कृतवदेव सिद्धः । तत्र(तः) कुत्सिताद्यर्थमन्यत् सूत्रं नोक्तम् । 'यावादिभ्यः कः' (७।३।१५) इति सूत्रेण यः कप्रत्ययः स यावादिगणाद् भवति इतिकारणात् 'स्वार्थे कश्च वा' (२।१६४) इति सूत्रं कृतम् ॥१६४॥ ___ लो नवैकाद्वा ॥ ८।२।१६५ ॥ आभ्यां स्वार्थे संयुक्तो लो वा भवति ।। नवल्लो । एकल्लो | सेवादित्वात् कस्य द्वित्वे एक्कल्लो ॥ पक्षे-नवो । एक्को । एओ ॥ [ल्लो नवैकाद्वा] ल्ल प्रथमा सि । नवश्च एकश्च = नवैकम्, तस्मात् = नवैकात् । पञ्चमी ङसि । वा प्रथमा सि । [नवल्लो] नव । अनेन वा लप्र० । प्रथमा सि । 'अतः सेोः ' (३।२) सि० → डो० → ओ० नवल्लो । [एकल्लो ] एक । अनेन वा लप्र० । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० एकल्लले । [एक्कलो ] एक । अनेन लप्र० । सेवादौ पठनात् 'सेवादौ वा' (२।९९) कस्य द्वित्वम् । प्रथमा सि । 'अत: सेर्डोः' (३२) सि० → डो० → ओ० एक्लो । पक्षे- [नवो] नव । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० नवो । [एक्को] एक। 'सेवादौ वा' (२।९९) कस्य द्वित्वम् । प्रथमा सि । 'अतः से?:' (३।२) सि० →डो० → ओ० एक्को। [एओ] एक । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० एओ ॥१६५।। उपरेः संव्याने ॥८।२।१६६ ॥ संव्यानेऽर्थे वर्तमानादुपरिशब्दात् स्वार्थे लो भवति ॥ अवरिल्लो ॥ संव्यान इति किम् ? अवरि ॥ [उपरेः संव्याने] उपरि पञ्चमी ङसि । संव्यान सप्तमी ङि। [अवरिल्लो ] उपरि । 'वोपरौ' (१।१०८) उ० → अ० । 'पो वः' (११२३१) पस्य वः । अनेन लप्र० । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० अवरिल्लो । प्रावरणमित्यर्थः । [अवरिं] उपरि । 'वोपरौ' (१।१०८) उ० → अ० । 'पो वः' (१।२३१) पस्य वः । 'वक्रादावन्तः' (१२२६) अनुस्वारः अवरि ॥१६६।। भ्रुवो मया डमया ॥ ८।२।१६७ ॥ भ्रूशब्दात् स्वार्थे मया-डमया इत्येतौ प्रत्ययौ भवतः ॥ भुमया । भमया ॥ [भ्रुवो मया डमया ] भ्रू पञ्चमी ङसि । मया प्रथमा सि । डमया प्रथमा सि । [भुमया ] धू । 'उधू-हनूमत्-कण्डूय-वातूले' (१।१२१) भ्रू० → ६० । 'सर्वत्र ल-व०' (२७९) लुक् । अनेन मयाप्र० । प्रथमा सि । 'अन्त्य०' (१।११) स्लुक् भुमया । [भमया] भ्रू । अनेन डमया० → अमया० इति । 'डित्यन्त्यः ' (२२१२११४) ऊलुक् । 'सर्वत्र ल-व०' (२१७९) लुक् । प्रथमा सि । 'अन्त्य०' (१।११) सलुक् भमया ॥१६७॥
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy