SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ व्युत्पत्तिदीपिकाभिधान- दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । [मईअपक्खो ( क्खे)] मदीयपक्ष । बहुलाधिकारात् ईयस्य केरो न स्यात् । 'क-ग-च-ज०' (१।१७७) लुक् - य्लुक् च । ‘क्ष: ख: क्वचित्तु०' (२३) क्षस्य खः । 'अनादौ ० ' (२२८९) खस्य द्वित्वम् । 'द्वितीय - तुर्ययो० ' (२९० ) पूर्वखस्य कः । प्रथमा सि । 'अतः सेर्डो:' (३२) सि० डो० ओ० मईअपक्खो (सप्तमी ङि मईअपक्खे) । २५४ [ पाणिणीआ] पाणिनीय । पाणिनेरिमे छात्रा इति पाणिनीयाः । 'नो णः' (१।२२८) नी० णी० । 'क-ग-चज-त-द-प-य-वां प्रायो लुक् (१।१७७) य्लुक् । प्रथमा जस् । 'जस् - शसोर्लुक्' ( ३।४) जस्लुक् । 'जस् - शस् - ङसि० ' (३।१२) अ० आ० पाणिणीआ ॥ १४७॥ पर - राजभ्यां क्क- डिक्कौ च ॥ ८।२।१४८ ॥ - पर-राजन् इत्येताभ्यां परस्येदमर्थस्य प्रत्ययस्य यथासंख्यं संयुक्तौ क्को डित् इक्कञ्चादेशौ भवतः । चकारात्रश्च ॥ परकीयम् →> पारक्कं परक्कं पारकेरं । राजकीयम् → राइक्कं रायकेरं ॥ [ परराजभ्याम् ] परश्च राजा च = परराजानौ, ताभ्याम् = परराजभ्याम् । [ क्वडिक्कौ च ] कश्च डिक्कश्च = क्कडिक्कौ । प्रथमा औ । च प्रथमा सि । → क्क० । → [ पारक्कं परक्कं पारकेरं ] पर। परस्य इदं = परकीयम् । 'पर-जन०' (६ | ३ | ३१ ) कीयप्र० । अनेन कीय० 'अत: समृद्ध्यादौ वा' (१।४४) प० पा० । प्रथमा सि । 'क्लीबे (१।२३) अनुस्वारः पारक्कं-परक्कं । तृतीये परकीय । अनेन कीय० पा० । प्रथमा सि । 'क्लीबे० ' ( ३।२५) सि०म्० । 'मोऽनु०' स्वरान्म् से:' ( ३।२५) सि० म्॰ । 'मोऽनुस्वारः' केर० । 'अतः समृद्ध्यादौ वा' (१।४४) प० → (१।२३) अनुस्वारः पारकेरं । [ राइक्कं रायकेरं ] राजकीय । अनेन कीय० डिक्क० -> इक्क० । “डित्यन्त्यस्वरादेः' (२|१|११४) अन्त्यस्वरादिलोप: । 'लोकात् ' (१|१|३) राजिक्क० । 'क-ग-च-ज०' (१।१७७) ज्लुक् । प्रथमा सि । 'क्लीबे० ' ( ३।२५ ) सि० म्० । 'मोऽनु० ' (१।२३) अनुस्वारः राइक्कं । द्वितीये - राजकीय । अनेन कीय० केर० । 'क-गच ज०' (१।१७७) ज्लुक् । ‘अवर्णो यश्रुतिः' (१।१८०) अ० य० । प्रथमा सि । 'क्लीबे० ' ( ३।२५) सि० म्० । 'मोऽनु० ' (१।२३) अनुस्वारः रायकरं ||१४८|| युष्मदस्मदोऽञ एच्चयः ॥ ८।२।१४९ ॥ आभ्यां परस्येदमर्थस्याऽञ एच्चय इत्यादेशो भवति ॥ युष्माकमिदं → यौष्माकम् । तुम्हेच्चयं । एवम् - अम्हेच्चयं ॥ [ युष्मदस्मदः ] युष्मच्च अस्मच्च = युष्मदस्मदौ, तयोः = युष्मदस्मदोः । षष्ठी ओस् । (तस्मात् = युष्मदस्मदः । पञ्चमी ङसि ) । [ अञ एच्चयः ] अञ् षष्ठी ङस् । एच्चय प्रथमा सि । [ तुम्हेच्चयं ] युष्मद् । युष्माकमिदम् । 'वा युष्मदस्मदोऽञीनञ०' (६|३|६७) अञ्प्र० "युष्माक" आदेशः । अनेन आक० एच्चय० । 'युष्मद्यर्थपरे तः' (१।२४६) यु० तु० । 'पक्ष्म श्म-ष्म स्म - मां म्हः' (२।७४ ) ष्म० → म्ह० । 'लुक्' (१।१०) म्हमध्याद् अलोपः । 'लोकात् ' (१।१।३) तुम्हेच्चय । प्रथमा सि । 'क्लीबे० ' ( ३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः तुम्हेच्चयं ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy