SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २४२ व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । [एसो करेणू] एतद् । 'अन्त्यव्य०' (१।११) द्लुक् । 'तदश्च तः सोऽक्लीबे' (३।८६) तस्य सः । प्रथमा सि । एसो। करेण । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः । 'अन्त्य०' (११११) स्लुक् करेणू ॥११६।। आलाने ल-नोः ॥ ८।२।११७ ॥ आलानशब्दे लनोर्व्यत्ययो भवति ॥ आणालो । आणाल-क्खम्भो ॥ [आलाने लनोः ] आलान सप्तमी ङि । लश्च न् च = लनौ, तयोः = लनोः । षष्ठी ओस् । [आणालो] आलान । अनेन व्यत्ययः । लानस्थाने नाल० । 'नो णः' (१।२२८) ना० → णा० । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० आणालो । [आणालक्खम्भो] आलान-स्तम्भ । अनेन लानस्थाने नाल । 'नो णः' (१।२२८) ना० →णा० । 'स्तम्भे स्तो वा' (२२८) स्तस्य खः । 'अनादौ०' (२१८९) खस्य द्वित्वम् । “द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः । प्रथमा सि । 'अत: से?:' (३२) सि० → डो० → ओ० आणालक्खम्भो ॥११७।। अचलपुरे च-लोः ॥ ८।२।११८ ॥ अचलपुरे चकार-लकारयोर्व्यत्ययो भवति ॥ अलचपुरं ॥ [अचलपुरे चलोः ] अचलपुर सप्तमी ङि । च च ल् च = चलौ, तयोः = चलोः । षष्ठी ओस् । [अलचपुरं] अचलपुर । अनेन व्यत्ययः । चलस्थाने लच० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः अलचपुरं ॥११८॥ महाराष्ट्रे ह-रोः ॥ ८।२।११९ ॥ महाराष्ट्रशब्दे ह-रोर्व्यत्ययो भवति ॥ मरहट्ठ ॥ [महाराष्ट्रे हरोः] महाराष्ट्र सप्तमी ङि । हश्च र् च = हरौ, तयोः = हरोः । षष्ठी ओस् । [मरहट्ठ] महाराष्ट्र । 'महाराष्ट्र' (१९६९) हा० → ह० । 'हुस्वः संयोगे' (१९८४) रा० → र० । अनेन व्यत्ययः । हरस्थाने रह० । 'सर्वत्र ल-व०' (२२७९) लुक् । 'ष्टस्याऽनुष्ट्रेष्टा०' (२।३४) ष्टस्य ठः । 'अनादौ०' (२८९) ठस्य द्वित्वम्। 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य टः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० →म् । 'मोऽनु०' (१।२३) अनुस्वारः मरहठं ॥११९॥ हुदे ह-दोः ॥ ८।२।१२० ॥ हुदशब्दे हकार-दकारयोर्व्यत्ययो भवति ।। द्रहो || आर्षे-हरए महपुण्डरिए । [हृदे हदोः] हुद सप्तमी ङि । हश्च द् च = हदौ, तयोः = हदोः । षष्ठी ओस् । [द्रहो] हृद। अनेन व्यत्ययः । हृदस्थाने द्रह० । प्रथमा सि । 'अतः से?ः' (३२) सि० → डो० → ओ० द्रहो। [हरए महपुण्डरिए] ह्रद । प्रथमा सि । 'अत: एत्सौ पुंसि मागध्याम्' (४।२८७) द० → दे० । 'अन्त्यव्य०' (१।११) स्लुक् । आर्षत्वात् हु० → हर० । 'क-ग-च-ज०' (१।१७७) द्लुक् हरए ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy