SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ व्युत्पत्तिदीपिकाभिधान- बुण्डिकया समर्थिते सिद्धमप्राकृतव्याकरणे । [ छइअं ] स्थगित । अनेन स्थस्य छ। 'क-ग-च-ज०' (१११७७) ग्लुक् लुक् च प्रथमा सि 'क्लीवे०' 1 ( ३।२५) सि० म्० । 'मोऽनु०' (१।२३) अनुस्वारः छइअं । १७८ - [ इक्खू] इक्षु प्रथमा सि क्षः खः क्वचितु छ झौ' (२३) क्षस्य खः । अनादौ०' (२२८९) खस्य द्वित्वम् । 'द्वितीय-तुर्ययो० (२।९०) पूर्वखस्य कः प्रथमा सि 'अक्लीबे सौ' (३११९) दीर्घः । 'अन्त्यव्य०' (११११) स्लुक् इक्खू । I - [खीरं] क्षीर प्रथमा सि आर्यत्वात् क्षस्य खः 'क्लीबे० ' ( ३।२५) सि० ० 'मोऽनु०' (११२३) अनुस्वारः खीरं । [सारिक्खं ] सादृक्ष्य 'दृशः क्विप्-टक्-सकः' (१११४२) ऋ०रि० । आर्यत्वात् क्ष्यस्य खः । प्रथमा सि 'क्लीबे०' (३।२५) सि० म्० 'मोऽनु०' (२३) अनुस्वारः सारिक्ख ||१७|| → । क्षमायां कौ ॥ ८।२।१८ ॥ कौ पृथिव्यां वर्तमाने क्षमाशब्दे संयुक्तस्य छो भवति ॥ छमा पृथिवी ॥ लाक्षणिकस्यापि क्ष्मादेशस्य भवति । क्ष्माछमा ॥ काविति किम् ? खमा क्षान्तिः ॥ [ क्षमायां की ] क्षमा सप्तमी डि कु सप्तमी ङि । [छमा पृथिवी ] क्षमा । प्रथमा सि । अनेन क्षस्य छः । 'अन्त्यव्य० ' (१।११) स्लुक् छमा | [ छमा ] क्ष्मा । 'क्ष्मा - श्लाघा - रत्नेऽन्त्यव्यञ्जनात् ' (२।१०१) इति क्ष्- मयोर्विश्लेषं कृत्वा मात् प्राक् अकारः । अ क्षस्य छः । प्रथमा सि । 'अन्त्यव्य० ' (१।११) स्लुक् छमा । [ खमा क्षान्तिः ] क्षमा । प्रथमा सि । 'क्षः खः क्वचित्तु०' (२३) क्षस्य खः । 'अन्त्यव्य ० ' (१।११) स्लुक् खमा ॥१८॥ ऋक्षे वा ।। ८।२।१९ ।। ऋक्षशब्दे संयुक्तस्य छो वा भवति ॥ रिच्छं रिक्खं । रिच्छो रिक्खो ॥ कथं छूढं क्षिप्तं ? 'वृक्ष - क्षिप्तयो रुक्ख छूढौ' (२।१२७) इति भविष्याति ॥ [ ऋक्षे वा] ऋक्ष सप्तमी डि वा प्रथमा सि । [रिच्छं रिक्खं] ऋक्ष प्रथमा सि 'रिः केवलस्य' (१।१४०) ऋ०रि० । अनेन क्षस्य विकल्पेन उकारः । 'अनादौ ०' (२२८९) छस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चकारः । 'क्लीबे०' ( ३।२५) सि० म्० । 'मोऽनु०' (१।२३) अनुस्वारः रिच्छं । पक्षे - ऋक्ष । प्रथमा सि । 'रिः केवलस्य' (१।१४०) ॠ० → रि० क्वचित्तु०' (२३) क्षस्य खः 'अनादौ०' (२२८९) खस्य द्वित्वम् । द्वितीय तुर्ययो०' (२१९०) पूर्वखस्य कः (३।२५) सि० म्० 'मोऽनु०' (१।२३) अनुस्वारः रिक्खं । । ‘क्षः खः 'क्लीबे० ' I 'गुणाद्याः क्लीबे वा' (१।३४) इति पुंस्त्वमपि भवति, तत्र रिच्छो रिक्खो पूर्ववत् ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy