SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ ॥ नमो नमः श्रीगुरुनेमिसूरये ॥ बृहत्तपागच्छीय-श्रीउदयसौभाग्यगणिविरचितया व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थितं सिद्धहेमप्राकृतव्याकरणम् ॥ ॥ अथ अष्टमाध्यायस्य द्वितीयः पादः ॥ संयुक्तस्य ॥ ८।२।१ ॥ अधिकारोयं 'ज्यायामीत्' (२।११५) इति यावत् । यदित ऊर्ध्वमनुक्रमिष्यामस्तत् संयुक्तस्येति वेदितव्यम् ॥ [संयुक्तस्य] संयुक्त षष्ठी ङस् ॥१॥ शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वे को वा ॥ ८।२।२ ॥ एषु संयुक्तस्य को वा भवति ॥ सक्को सत्तो । मुक्को मुत्तो । डक्को दट्ठो । लुक्को लुग्गो । माउक्कं मा(म)उत्तणं ॥ [शक्तमुक्तदष्टरुग्णमृदुत्वे] शक्तश्च मुक्तश्च दष्टश्च रुग्णश्च मृदुत्वं च = शक्तमुक्तदष्टरुग्णमृदुत्वम्, तस्मिन् = शक्तमुक्तदष्टरुग्णमृदुत्वे । सप्तमी ङि । [को वा] क प्रथमा सि । वा प्रथमा सि । [सक्को सत्तो] शक्त । 'श-षोः सः' (१२२६०) श० → स० । अनेन वा क्तस्य क० । 'अनादौ०' (२१८९) कस्य द्वित्वम् । प्रथमा सि । 'अत: सेझैः' (३२) सि० → डो० → ओ० सक्को । पक्षे-शक्त । 'श-षोः सः' (१।२६०) श० → स० । 'क-ग-ट-ड०' (२।७७) क्लुक् । 'अनादौ०' (२।८९) तस्य द्वित्वम् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० सत्तो।। ___ [मुक्को मुत्तो] मुक्त । अनेन वा तस्य क० । 'अनादौ०' (२।८९) कस्य द्वित्वम् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० मुक्को । पक्षे-मुक्त । 'क-ग-ट-ड०' (२७७) क्लुक् । 'अनादौ०' (२१८९) तस्य द्वित्वम् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० मुत्तो। [डक्को दट्ठो] दष्ट । अनेन वा ष्टस्य क० । 'दशन-दष्ट-दग्ध-दोला-दण्ड-दर-दाह-दम्भ-दर्भ-कदन-दोहदे दो वा डः' (१२२१७) दस्य डः । 'अनादौ०' (२१८९) कस्य द्वित्वम् । प्रथमा सि । 'अतः से?ः' (३।२) सि० → डो० , ओ० डक्को । पक्षे-दष्ट । 'ष्टस्याऽनुष्ट्रेष्टा०' (२।३४) ष्टस्य ठः । 'अनादौ०' (२।८९) ठस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वठस्य ट: । प्रथमा सि । 'अतः सेझैः' (३।२) सि० → डो० → ओ० दह्रो । [लुक्को लुग्गो] रुग्ण । 'हरिद्रादौ लः' (१।२५४) रस्य लः । अनेन वा ग्णस्य कः । 'अनादौ०' (२।८९) कस्य द्वित्वम् । प्रथमा सि । 'अतः से?ः' (३।२) सि० → डो० → ओ० लुक्को मन्दः । पक्षे-रुग्ण । 'हरिद्रादौ लः' (११२५४) रस्य लः । 'क्तेनाप्फुण्णादयः' (४।२५८) णलुक् । 'अनादौ०' (२८९) गस्य द्वित्वम् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० लुग्गो ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy