SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य प्रथमः पादः ॥ १६३ 'सिरायां वा ॥ ८१२६६ ॥ सिराशब्दे आदेश्छो वा भवति ॥ छिरा सिरा ॥ [सिरायां वा] सिरा सप्तमी ङि । वा प्रथमा सि । [छिरा सिरा] 'सिरा (२) । प्रथमा सि । अनेन वा सस्य छः । 'अन्त्य०' (१।११) स्लुक् छिरा सिरा ॥२६६।। लुग भाजन-दनुज-राजकुले जः सस्वरस्य नवा ॥ ८।१।२६७ ॥ एषु सस्वरजकारस्य लुग् वा भवति ॥ भाणं भायणं । दणु-वहो दणुअ-वहो । रा-उलं राय-उलं ॥ [ लुग भाजनदनुजराजकुले ] लुग् प्रथमा सि । भाजनं च दनुजश्च राजकुलं च = भाजनदनुजराजकुलम्, तस्मिन् = भाजनदनुजराजकुले । सप्तमी ङि । [जः सस्वरस्य नवा] ज् षष्ठी ङस् । सस्वर षष्ठी ङस् । नवा प्रथमा सि । [भाणं भायणं] भाजन (२) । अनेन वा जलुक् । 'नो णः' (१।२२८) न० → ण० । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः भाणं । पक्षे-भाजन । 'क-ग-च-ज०' (१।१७७) ज्लुक् । 'अवर्णो०' (१६१८०) अ० → य० । 'नो णः' (१२२८) न० → ण । प्रथमा सि । 'क्लीबे०' (३६२५) सि० → म्। 'मोऽनु०' (१।२३) अनुस्वारः भायणं । [दणुवहो दणुअवहो] दनुजवध (२) । अनेन वा जस्य लुक् । पक्षे- 'क-ग-च-ज०' (११७७) ज्लुक् । 'खघ-थ०' (१।१८७) धस्य हः । 'नो णः' (१।२२८) नु० → णु० । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० दणुवहो दणुअवहो । [राउलं रायउलं] राजकुल (२) । अनेन वा जस्य लुक् । 'क-ग-च-ज०' (१।१७७) क्लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः राउलं । पक्षे-राजकुल । प्रथमा सि । 'क-ग-च-ज०' (१।१७७) ज-कयोर्लुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः रायउलं ॥२६७॥ व्याकरण-प्राकारा-ऽऽगते क-गोः ॥८।१।२६८ ॥ एषु को गश्च सस्वरस्य लुग वा भवति ।। वारणं वायरणं । पारो पायारो । आओ आगओ ॥ [व्याकरणप्राकाराऽऽगते] व्याकरणं च प्राकारश्च आगतश्च = व्याकरणप्राकाराऽऽगतम्, तस्मिन् = व्याकरणप्राकाराऽऽगते । सप्तमी ङि । [कगोः ] कश्च ग् च = कगौ, तयोः = कगोः । षष्ठी ओस् । [वारणं वायरणं] व्याकरण (२) । 'अधो म-न-याम्' (२।७८) यलुक् । अनेन वा कस्य लुक् । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः वारणं । पक्षे-व्याकरण । 'अधो म-न-याम्' (२।७८) य्लुक् । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'अवर्णो०' (१६१८०) अ० → य० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः वायरणं । १. H. I. J. K. L. M. शिरायां वा । २. पा० म०-शिरा० → छिरा० ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy