SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य प्रथमः पादः ॥ १०५ [सउरा] सौर । अनेन सौ० → सउ० । प्रथमा जस् । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः- र० → रा० सउरा । [कउला] कौल । अनेन कौ० → कउ० । प्रथमा जस् । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः-ल० → ला० कउला ॥१६२॥ आच्च गौरवे ॥८११६३ ॥ गौरवशब्दे औत आत्वं अउश्च भवति ॥ गारवं गउरवं ॥ [आच्च गौरवे] आत् प्रथमा सि । च प्रथमा सि । गौरव सप्तमी ङि । [गारवं गउरवं] गौरव । प्रथमा सि । अनेन गौ० → गा० । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः गारवं । द्वितीये चकारात् गौ० → गउ० । शेषं पूर्ववत् । मउरवं ॥१६३।। नाव्यावः ॥ ८।१।१६४ ॥ नौशब्दे औत आवादेशो भवति ॥ नावा ॥ [नाव्यावः ] नावि(नौ) । सप्तमी ङि । आव प्रथमा सि । [नावा] नौ । अनेन आव० । 'आत्' (२।४।१८) आप्प्र० → आ । प्रथमा सि । 'अन्त्यव्यः' (१।११) स्लुक् नावा ॥१६४|| एत् त्रयोदशादौ स्वरस्य सस्वरव्यञ्जनेन ॥ ८।१।१६५ ॥ त्रयोदशन् इत्येवंप्रकारेषु संख्याशब्देषु आदेः स्वरस्य परेण सस्वरेण व्यञ्जनेन सह एद् भवति ॥ तेरह । तेवीसा । तेत्तीसा ॥ [एत् त्रयोदशादौ] एत् प्रथमा सि । त्रयोदश आदौ यस्य सः = त्रयोदशादिस्तस्मिन् = त्रयोदशादौ । सप्तमी ङि । [स्वरस्य] स्वर षष्ठी ङस् । [सस्वरव्यञ्जनेन] सस्वरव्यञ्जन तृतीया टा । [तेरह] त्रयोदश । अनेन त्रयो० → ते० । 'संख्या-गद्गदे रः' (१२२१९) दस्य र० । 'दश-पाषाणे हः' (१२२६२) शस्य ह० तेरह । [तेवीसा] त्रयोविंशति । अनेन त्रयो० ते० । 'ईजिह्वा-सिंह-त्रिशद्विशतो त्या' (१८९२) विं० → वीं - तिलोपश्च । 'विंशत्यादेर्लुक् (१।२८) अनुस्वारलुक् । 'श-षोः सः' (१।२६०) श० → स० । प्रथमा जस् । 'जस्शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्०' (३।१२) दीर्घः- स० → सा० तेवीसा । [तेत्तीसा] त्रयस्त्रिंशत् । अनेन त्रय० → ते० । 'क-ग-ट-ड०' (२७७) स्लुक् । 'सर्वत्र०' (२७९) लुक् । 'ईजिह्वा-सिंह०' (१९२) तिं० → ती० । 'विंशत्यादेर्लुक् (१।२८) अनुस्वारलुक् । "तैलादौ' (२९८) द्वित्वं-ती० → त्ती० । 'श-षोः सः' (१।२६०) श० → स० । 'अन्त्यव्य०' (१।११) त्लुक् । प्रथमा जस् । 'जस्-शसोलुंक्' (३।४) जस्लुक् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः - स० → सा० तेत्तीसा ॥१६५॥ १. J. 'अनादौ०' (२१८९) ।
SR No.007101
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy