SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ भाग्यम् उ० १ सू. ३५ आवियोपाध्यायायेकै काभावे आलोचनाविधिः ४५ छाया-भिक्षुश्चाऽन्यतरमकृत्यस्थानं सेवित्वा इच्छेदालोचयितुं यत्रैवात्मन आचार्योपाध्यायान् पश्येत् तेषाम् अन्तिके प्रतिक्रामेत् निंदेत् गत व्यावर्तेत विशोधयेत् अकरणतयाऽभ्युत्तिष्ठेत् यथार्ह तपःकर्म प्रायश्चित्तं प्रतिपद्येत १ । नो चैवात्मन आचार्योपाध्यायान् यत्रैव सांभोगिकं साधर्मिकं पश्येत् बहुश्रुतं बह्वागभं तस्य अन्तिके आलोचयेत् प्रतिकामेत् निंदेत् गर्हेत व्यावर्तेत विशोधयेत् अकरणतया अभ्युत्तिष्ठेत् यथार्ह तपःकर्म प्रायश्चितं प्रतिपद्येत २ । ना चैव सांभोगिकं साधर्मिकं यत्रैवाऽन्यसांभोगिकं सार्मिकं पश्येत् बहुश्रुतं बह्वागमं तस्य अन्तिके आलोचयेत् प्रतिक्रामेत् निदेत् गहेंत व्यावत्तेत विशोधयेत् अकरणतया अभ्युत्तिष्ठेत् यथाहं तपःकर्म प्रायश्चित्तं प्रतिपधेत ३ । नो चैवान्यसांभोगिकं यत्रैव सारूपिकं पश्येत् बहुश्रुतं बह्वागमं तस्य अन्तिके आलोचयेत् प्रतिक्रामेत् निन्देत् गहेंत व्यावतत विशोधयेत् अकरणतया अभ्युत्तिष्ठेत् यथाहं तपःकर्म प्रायश्चित्तं प्रतिपद्येत ४ । नो चैव सारूपिकं यत्रैव श्रमणोपासकं पश्चात्कृतं पश्येत् बहुश्रुतं बह्वागमं कल्पते तस्यान्तिके आलोचयेत् प्रतिक्रामेत् निदेत् गहेंत व्यावतत विशाधयेत् अकरणतया अभ्युत्तिष्ठेत् यथाहं तपःकर्म प्रायश्चित्तं प्रतिपद्येत ५ । नो चैव श्रमणोपासकं पश्चात्कृतं यत्रैव सम्यग्भावितानि चैत्यानि पश्येत् तेषाम अन्तिके आलोचयेत प्रतिक्रामेत निदेत गत व्यावर्तत विशोधयेत अकरणतया अभ्युत्तिष्ठेत् यथाहं तपःकर्म प्रायश्चित्तं प्रतिपद्येत ६। नो चैव सम्यग्भावितानि चैत्यानि पश्येत् बहिग्रमिस्य वा नगरस्य वा निगमस्य वा राजधान्या वा खेटस्य वा कर्बटस्य वा मडम्बस्य वा पत्तनस्य वा द्रोणमुखस्य वा आश्रमस्थ वा संबाधस्य वा संनिवेशस्य वा प्राचीनाभिमुखो घा उदीचीनाभिमुखो वा करतलपरिगृहीतं शिरावर्त मस्तके अंजलिं कृत्वा एवं वदेत्-पतावंतो मेऽपराधाः एतावत्कृत्वः अहमपराद्धः, अर्हतां सिद्धानाम् अन्तिके आलोचयेत् प्रतिक्रामेत् निदेत् गर्तेत व्यावत्तत विशोधयेत् अकरणतयाऽभ्युत्तिष्ठेत् यथाई तपाकर्म प्रायश्चित्तं प्रतिपद्येत ७ इति ब्रवीमि ॥ ० ३५॥ ॥ इति प्रथमोद्देशः समाप्तः ॥१॥ भाष्यम्-'भिक्खू य अन्नयरं' इति। 'भिक्खू य अन्नयरं' भिक्षुश्च अन्यतरत् अनेकेषु प्राणातिपातादिष्वकृत्येषु मध्ये यत्किमप्येकम् 'अकिच्चट्ठाणं' अकृत्यस्थानं कर्तुमयोग्यमकृत्यम् , अकृत्यं च तत्स्थानमकृत्यस्थानं प्राणातिपातादिलक्षणम् ‘सेवित्ता' सेवित्वा 'इच्छेज्जा' इच्छेत् अभिलषेत् 'आलोइत्तए' आलोचयितुं पापस्यालोचनां कर्तुमिच्छेत् तथाहि-मोहनीयकर्मोंदयाद्वा प्राणातिपातादिलक्षणस्याऽकृत्यस्य प्रतिसेवनं कृत्वा विगलितप्रमादो दुष्कृतकर्मणः कटुविपाकमालोच्य तादृशकर्ममलमपनेतुं तस्य कर्मणः प्रायश्चित्तं ग्रहीतुमिच्छेदिति । सत्यामप्यालोचनेच्छायां कुत्र कस्याने आलोचनां कुर्यादिति जिज्ञासायामाह-'जत्थेव' यत्रैव स्थानविशेषे ग्रामादौ उपाश्रयविशेषे वा 'अप्पणो आयरिय उवज्झाए पासेज्जा' आत्मन आचार्योपाध्यायान् पश्येत् स च आलोचनां कर्तुमिच्छुः आत्मनः स्वकीयगणसम्बन्धिनो नतु परगणाऽवस्थितान् आचार्योपाध्यायान् पश्येत् अकृत्यस्य दूरीकरणे सत्कृत्यस्य च करणे काल.
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy