SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे ऽसि विहारजनितखेदमपनीय सुखेन तिष्ठ । ' एवं से कप्पर एगरायं वा दुरायं वा वत्थ' एवं तस्य कल्पते एकरात्रं वा द्विरात्रं वा वस्तुम्, एवमुक्तप्रकारके ग्रामान्तराधिष्ठितस्थविराधाग्रहे सति 'से' तस्य परिहारकल्पस्थितस्य तत्र स्थानान्तरादौ परिसमाप्तकार्यस्यापि एकरात्रं वा द्विरात्रं वा वस्तुं वासं कर्त्तुं कल्पते, किन्तु 'नो से कप्पर एगरायाओ वा दुरायाओ वा परं वत्थए' नो तस्य कल्पते एकरात्राद्वा द्विरात्राद्वा परं वस्तुम्, ततः परं पुनः स्थविराद्याग्र हे स्वेच्छया वा निष्कारणम् एकरात्रात् द्विरात्राद्वा परमधिकं वासं कर्ते परिहारकल्पस्थितस्य न कल्पते इत्यर्थः । यो निष्कारणमधिकं वसति तत्राह - " - 'जे तत्थ एगरायाओ वा दुरायाओ वा परं वसई' यस्तत्र एकरात्राद्वा द्विरात्राद्वा परमधिकं कालं त्रिरात्रं चतुरात्रादिकं वा निष्कारणं वसति 'से' तस्य 'संतरा छेए वा परिहारे वा' सान्तरात् छेदो वा परिहारो वा यः परिहारकल्पस्थितः पुनस्तत्रत् द्विरात्राद्वा परमधिकं वसति तस्य भिक्षोः सान्तरात् स्वकृतादन्तरादपान्तराले निष्कारणवासरूपकारणात् यावत्कालं निष्कारणमेकद्विरात्रादधिकमुषितः तावत्कालिकः छेदो वा परिहारो वा छेदनामकं वा परिहारनामकं वा प्रायश्चित्तं यथायोगं गुरुर्दद्यादिति ॥ सू० २२ ॥ सूत्रम् - परिहारक पहिए भिक्खू बहिया थेराणं वेयावडियाए गच्छेज्जा, थेरा य से नो सरेज्जा कप्पड़ से निव्विसमाणस्स एगराइयाए पडिमाए जं णं जं णं दिसं अन्ने साहम्मिया विहरंति तं णं तं णं दिसं उवलित्तए, नो से कप्पइ तत्थ विहारवत्तियं वत्थए, कप्पर से तत्थ कारणवत्तियं वत्थए, तंसि च णं कारणंसि निट्ठियंसि परो वएज्जावसाहि अज्जो ! एगरायं वा दुरावा, एवं से कप्पइ एगरायं वा दुरायं वा वत्थए, नो से कष्पइ परं एगरायाओ वा दुरायाओ वा वत्थए, जं तत्थ परं एगरायाओ वा दुरायाओ वा वसई से संतरा छे वा परिहारे वा ॥ सू० २३ ॥ छाया - परिहारकल्पस्थितो भिक्षुर्बहिः स्थविराणां वैयावृत्याय गच्छेत्, स्थविराश्च नो स्मरेयुः कल्पते तस्य निर्विशमानस्य एकरात्रिक्या प्रतिमया यां खलु यां खलु दिशमन्ये साधका विहरन्ति तां खलु तां खलु दिशमुपलातुं, नो तस्य कल्पते तत्र विहरप्रत्यथिकं वस्तुम्, कल्पते तस्य तत्र कारणप्रत्यत्र वस्तुं तस्मिश्च कारणे निष्ठिते परो वदेत् वस आर्य ! एकरात्र वा द्विरात्रं वा, एवं तस्य कल्पते एकरात्रं वा द्विरात्रं वा वस्तुं, नो तस्य कल्पते परमेरात्राद्वा द्विरात्राद्वा वस्तु, यत् तत्र परमेकरात्राद्वा द्विरात्राद्वा वसति तस्य सान्तरात् छेदो वा परिहारो वा ॥ सु० २३ ॥ भाष्यम्- 'परिहारकप्पट्ठिए' इति । 'परिहार कप्पट्ठिए' परिहारकल्पस्थितः परिहारतपसि वर्त्तमानः ‘भिक्खू' भिक्षुः ‘बहिया' बहिरन्यत्र नगरादौ ग्रामान्तरे वा । 'थेराणं' स्थविराणामाचार्यादीनाम्, 'वेयावडिया ए' वैयावृत्त्याय, तत्र वैयावृत्त्यं गुरोरन्यस्य वा स्थविरस्य सेवा, तत्करणाय 'गच्छेज्जा' गच्छेत्'थेरा य' स्थविराश्च ‘से' तस्य परिहारकल्प स्थितस्य तपः 'नो सरेज्जा' नो स्मरेयु कार्यबाहुल्येन अयं परिहारतपोधारक इति न स्मरणं कुर्युः, असौ अपि गमनसंभ्रमेण निवेदनं विस्मरेत् यथा परिहारतपो
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy