________________
२०४
व्यवहारको सम्बन्धिभक्तादितो दद्यात् 'नो से कप्पइ पडिगाहित्तए' नो तादृशमन्नम् 'से' तस्य श्रमणस्य कल्पते प्रतिग्रहीतुं, शय्यातरपिण्डत्वात् ॥ सू० ११॥
सूत्रम्-सागारियस्स नायए सिया सागारियस्स एगवगड़ाए बाहिं सागारियस्स अभिणिपयाए सागारियं चोवजीवइ तम्हा दावए नो से कप्पइ पड़िगाहित्तए ॥ सू० १२॥
छायासागारिकस्य शातकः स्यात् सागारिकस्य एकवगडायां बहिः सागारिकस्य अभिनिप्रजायां सागारिकं चोपजीवति तस्मात् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥सू०१२॥
- भाष्यम्-'सागारियस्स' सागारिकस्य 'नायए सिया' ज्ञातकः स्यात् 'सागारियस्स एगवगड़ाए बाहिं' सागारिकस्य शय्यातरस्य-गृहपतेः एकवगड़ायामेकस्मिन् गृहे बहिः सागारिकस्य गृहादहि गे 'सागारियस्स अभिनिपयाए' सागारिकस्य अभिनिप्रजायां-पृथक् चुल्हिकायां रन्धनादिकं करोति, शेषं सर्व पूर्ववद् व्याख्येयम् ॥
अयं भावः- शय्यातरस्य कश्चित् स्वजनो भवेत् , स च शय्यातरस्य यद् गृहम् तस्य बहिर्भागे पृथक् पृथकू चुल्हिकायां भोजनादिकं संपादयति, परन्तु-शय्यातरस्य जललवणादिना संपादितस्वजनपाकाद् यदि साधवे ओदनादिकं समर्पयति, तादृशमोदनादिकं प्रतिग्रहीतुं श्रमणस्य न कल्पते, तादृशोदनादेरपि शय्यातरपिण्डत्वात् ॥ सू० १२ ॥
पूर्व सागारिकस्य प्रकरणेन-एकं गृहमाश्रित्याऽऽहारस्याऽनादेयत्वं कथितम् सम्प्रतिपृथक् पृथग् गृहमाश्रित्य शय्यातरपिण्डस्य-अनादेयतां कथयितुमाह—'सागारियस्स इत्यादि ।
सूत्रम्--सागारियस्स नायए सिया सागारियस्स अभिणियगड़ाए एगदुवाराए एगनिक्खमणपवेसाए अन्तो सागारियस्स एगपयाए सागारियं चोवजीवइ तम्हा दावए नो से कप्पइ पडिगाहित्तए ॥ सू० १३॥
छाया-सागारिकस्य शातकः स्यात् सागारिकस्य-अभिनिबगड़ायामेकद्वारायाम् एकनिष्क्रमणप्रवेशायाम् अन्तः सागारिकस्यैकप्रजायाम्, सागारिकं चोपजीवति तस्माद् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० १३॥
भाष्यम्- 'सागारियस्स' सागारिकस्य-गृहपतेः 'नायए सिया' ज्ञातकः स्यात् । 'सागारियस्स अभिणिवगड़ाए' सागारिकस्य-शय्यातरस्य अभिनिवगडायाम्, तत्र-अभिप्रत्येकं नि-नियता विविक्ता-पृथग्भूता वगड़ा--गृहम् इति -अभिनिवगडा, तस्याम्-शय्यातर