________________
भाष्यम् उ०७ सू० २७
राज्यपरावर्तेऽवग्रहानुज्ञापनाविधिः १८३ व्यवच्छिन्नं परम्परागतमेव वर्तते तादृशेषु, अत एव 'अपरपरिग्गहिएम' अपरपरिगृहीतेषु-न परेण केनापि राज्ञा परिगृहीतेषु राज परावर्तेषु 'सच्चेव ओग्गहस्स पुन्वणुन्नवणा' सा एव पूर्वावग्रहस्याऽनुज्ञापना या पूर्वराज्ञः सकाशाद् गृहीता-अनुज्ञापना कृता सैवाऽवग्रहस्याऽनुज्ञापना तिष्ठति । कियन्तं कालं सैव पूर्वाऽनुज्ञापना तिष्ठति ? तत्राह-'अहालंदमवि ओग्गहें' यथालन्दमप्यवग्रहः, लन्दशब्दोऽत्र कालवाचकस्तेन यावन्तं कालं स राजवंशोऽनुवर्तते तावन्तं कालम्, अथवा यावत्कालं श्रमणस्तत्र तिष्ठेत् तावत्कालपर्यन्तमपि अवग्रहे पूर्वराजाऽवग्रहे सैव पूर्वाऽनुज्ञापना वर्तते, न पुनरस्मिन् राज्ञि सिंहासने उपविष्टे स भूयोऽपि अवग्रहं प्रति अनुज्ञापयितव्यः । साधुः साध्वी वा पूर्वराजा कालगतः, द्वितीयो राज्येऽभिषिक्तः अनेन प्रकारेण राज्ये परिवर्तनं जातम् परन्तु सम्प्रति-तस्मिन् देशे प्रथमस्य राज्ञ आज्ञा न गता, दायादेषु विभागो न जातः, वंशपरम्परागतस्य राज्ञो विच्छेदो न जातः, वंशपरम्परागत एव तत्राभिषिक्तः, प्रत्यन्तरराजन्येन केनापि राज्यं न परिगृहीतम् तावत्कालपर्यन्तं पूर्वराज्ञ एव अवग्रहानुज्ञपनया स्थातव्यं श्रमणैरिति भावार्थः ॥ सू० २६ ॥
अथ पूर्वोक्तस्य विपर्यये सूत्रमाह-'से रज्जपरियट्टेसु' इयादि ।
सूत्रम्--से रज्जपरियट्टेसु असंथडेसु वोगडेसु वोच्छिन्नेसु परपरिग्गहिएसु भिक्खुभावस्स अट्ठाए दोच्चंपि ओग्गहे अणुनवेयवे सिया ॥ सू० २७॥
॥ ववहारे सत्तमो उद्देसो ॥७॥ छाया-तस्य राजपरावर्तेषु असंस्तृतेषु व्याकृतेषु व्यवच्छिन्नेषु परपरिगृहीतेषु भिक्षुभावस्याऽर्थाय द्वितीयमपि अवग्रहोऽनुज्ञापयितव्यः स्यात् ॥ सू० २७ ॥
__॥ व्यवहारे सप्तम उद्देशः ॥७॥ भाष्यम्-‘से रज्जपरियटेसु' 'से' तस्य श्रमणस्य राजपरावर्तेषु यत्र पूर्वराज्ञः परिवर्तनं जातम् पूर्वराज्ञि कालंगते सति तत्रापरो राजाऽभिषिक्तस्तद्देशेषु 'असंथडेसु' असंस्तृतेषु असमर्थेषु - अपरराजाऽऽक्रमणनिवारणार्थमशक्तेषु, कोऽप्यन्यो राजा तत्रागत्य तद्राज्यं विलुम्पितुं शक्नोति तादृशेषु त्रुटितपूर्वराज्यसंस्थितिष्वित्यर्थः 'वोगडे' व्याकृतेषु-विकृति प्राप्तेषु अन्यवंशीयैर्दायादैा विभज्य स्वायत्तीकृतेषु 'वोच्छिन्नेसु' व्यवच्छिन्नेषु-व्यपगतेषु पूर्ववंशीयराजशासनेषु, अतएव 'परपरिग्गहिएम' परपरिगृहीतेषु, परेण प्रत्यन्तरराज्ञा स्वाधीनीकृतेषु 'भिक्खुभावस्स अट्ठाए' भिक्षुभावस्याऽर्थाय, तत्र भिक्षोः-श्रमणस्य भावः-ज्ञानदर्शन-चारित्ररूपः, तस्याऽर्थाय प्रयोजनायय थाऽवस्थितभिक्षुभावसंपादनायेत्यर्थः 'मम भिक्षुभावो मा खण्डितो भूयात् परिपूर्णो भवतु तदर्थ'मिति, अथवा भिक्षुभावोऽचौर्याख्यं तृतीयं व्रतं तस्याऽर्थायअचौर्यव्रतपरिरक्षायै 'दोच्चपि' द्वितीयमपि वारम् , एकवारं पूर्वराजसमीपे अवग्रहस्याऽनुज्ञापना