________________
भाष्यम् उ० ७ सू० ११-१५
व्यतिष्ठदिग्गमनाधिकरणग्यवशमनविधिः १७३
माज्ञां दवा, “धारित्तए वा ” धारायितुं स्वस्य गमनं स्वीकर्तुं स्वस्य गन्तुमित्यर्थः न कल्प इति पूर्वेण सम्बन्धः । क्षेत्रतो विप्रकृष्टा दिग्- दूरदेशरूपा, तत्र गच्छन्तीनां संयतीनां स्त्रीशरीरत्वाद् बहवो दोषा आत्मसंयमविराधनादयो भवन्ति । भावतो विप्रकृष्टा - अन्यगच्छीयाचार्यादिरूपा तत्राधिकरणादि संभवादिति ॥ सू० १० ॥
सम्प्रति निर्ग्रन्थमधिकृत्य विहारविधिमाह - ' कप्पड़' इत्यादि ।
सूत्रम् - कप्पर णिग्गंथाणं विइगिट्टियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारितए वा ॥ सू० ११ ॥
छाया - कल्पते निर्ग्रन्थानां व्यतिकृष्टां दिशं वा अनुदिशं वा उद्देष्टुं वा धारयितुं वा ॥ सू० १९ ॥
भाष्यम् – ' कप्पइ' कल्पते 'णिग्गंथाणं' निर्ग्रन्थानाम् ' विइगिट्ठियं दिसं वा व्यतिकृष्टां दिशं वा व्यतिकृष्टाम् क्षेत्रतो भावतश्च विपरीतां, क्षेत्रतो दूरस्थाम्, भावतोऽन्यगच्छीयाचार्यादिरूपाम् 'अणुदिसं वा' अनुदिशं वा - अतिविपरीताम् 'उद्दित्तिए वा धारितए वा ' उद्देष्टुमनुज्ञातुम् धारयितुं स्वयं गन्तुं वा ॥ सू० ११ ॥
पूर्वं निर्ग्रन्थानां विप्रकृष्टदिग्गमने विधिः प्रोक्तः, सम्प्रति, विप्रकृष्टप्रसङ्गाद् विप्रकृष्टाधिकरणजन्यापराधक्षमापने निर्ग्रन्थमधिकृत्य सूत्रमाह – 'नो कप्पइ णिग्गंथाणं' इत्यादि ।
सूत्रम् - नो कप्पइ निग्गंथाणं विइगिट्ठाई पाहुडाई विओसवित्तए ||०१२ ॥ छाया - नो कल्पते निर्ग्रन्थानां व्यतिकृष्टानि प्राभृतानि व्यवशमयितुम् ॥ स्० १२ ॥ भाष्यम् – 'नो कप्पड़' न कल्पते 'णिग्गंथाणं' निर्ग्रन्थानाम् 'विइगिट्ठाई ' व्यतिकृष्टानि - दूरदेशकृतानि 'पाहुडाई' प्राभृतानि कठोरवचनादिजनिताधिकरणानि 'विओसंवित्तए' व्यवशमयितुम् तत्रस्थानामेव उपशमयितुम्, किन्तु - यत्रैव स्थानविशेषेऽधिकरणं समुस्पन्नं तत्रैवोपशमयितुं कल्पते, क्लेशमुत्पाद्य नान्यत्र गमनं युक्तियुक्तमिति भावः । अत्रापि व्यतिकृष्टाधिकरणक्षमापनं द्विविधम्- क्षेत्रतो भावतश्च, एषः क्षेत्रतो व्यतिकृष्टाधिकरणक्षमापनविधिरुक्तः । भावतस्तु अन्येन श्रमणेन सार्द्धं कृताधिकरणस्याऽन्यसमीपे क्षमापनम् एवमपि कर्त्तु न कल्पते इति सूत्राशयः ॥ सू० १२ ॥
"
सम्प्रति निर्ग्रन्थीमधिकृत्य व्यतिकृष्टाधिकरणक्षमापनविधिमाह - ' कप्पइ णिग्गंथीणं' इत्यादि । सूत्रम् - कप्पर णिग्गंथीणं विइगिट्ठाई पाहुडाई विओसवित्तए | सू० १३ ॥ छाया — कल्पते निर्मन्थीनां व्यतिकृष्टानि प्राभृतानि व्यवशमयितुम् ॥ सू० १३ ॥ भाष्यम् – 'कप्पइ' कल्पते 'णिग्गंथीणं' निर्ग्रन्थीनाम् ' विइगिट्ठाई' व्यतिकृष्टानि क्षेत्रठो भावतश्च दूरदेशकृतानि 'पाहुडाई' प्राभृतानि - अधिकरणानि तत्रस्थिताया एव 'विओ -