SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० २ ० २६-२) पारिहारिकपात्रेऽपारिहारिकस्य भोजननिषेधः ७३ गच्छेत् स्वकीयसंयमयात्रानिहाय पारिहारिको भिक्षः स्वकीयपात्रमादाय भिक्षामानेतुमाचार्याज्ञया उपाश्रयाद् बहिर्गच्छेदित्यर्थः, तत्समये 'थेरा य तं वएज्जा' तं परिहारिकं भिक्षामानेतुं बहिः प्रस्थितं ममार्थमाहाराधनेतु द्वितीयवारं पुनर्गमने कष्टसंभवः, इति विचार्य स्थविराः वदेयुः मधुरवचसा संबोध्य कथयेयुः । किं कथयेयुः ? तत्राह-'पडिग्गाहेहि'इत्यादि, 'पडिग्गाहेहि अज्जो ! अहंपि भोक्खामि वा पाहामि वा प्रतिगृह्णीयाः खलु आर्य ! मदर्थमप्यशनादि अहमपि भोदये पास्यामि वा, हे आर्य ! त्वं गच्छसि भिक्षामानेतुमतोऽस्मयोग्यमपि अशनादिकं स्वकीयपात्रके एव गृहीत्वा आनय, अहमपि त्वदानीतं भोक्ष्ये त्वदानीतं दुग्धादिकमपि पास्यामि, ‘एवं णं से कप्पड़ पडिग्गाहित्तए' एवं खलु पूर्वोक्तप्रकारेण स्थविरैः कथिते सति 'से' तस्य पारिहारिकस्य कल्पते स्थविरयोग्यमन्नपानादिकमपि स्वकीये पात्रे प्रतिग्रहीतुम् । अथ भोजनविधिमाह-'तत्थ णो कप्पई' तत्र तस्मिन् समानीतेऽशनादौ नो नैव कल्पते 'अपारिहारिएणं' पारिहारियस्स पडिग्गहंसि' अपारिहारिकेण सता पारिहारिकस्य प्रतिग्रहे पात्रे 'असणं वा पाणं वा खाइमं वा साइमं वा भोत्तए वा पायए वा' अशनं वा पानं वा खाचं वा स्वाद्य वा भोक्तुं वा पातुं वा परिहारकस्य पात्रे अशनादिकं भोक्तुमपारिहारिकस्य स्थविरस्य न कल्पते इत्यर्थः किन्तु-'कप्पई से सयंसि पडिग्गहंसि' कल्पते, तस्याऽपारिहारादिकस्य स्थविरादेः स्वकीये पात्रे काष्ठमये पात्रे 'सयंसि पलासगंसि कमढगंसि' स्वकीये पलाशके कमढके शुष्कपलाशपत्रनिर्मिते कमढके द्रोणकाभिधपात्रविशेषे 'सयंसि खुव्वगंसि वा' स्वकीये खुवके संपुटितोर्द्धमुखकरतलद्वयरूपे खोवा इति प्रसिद्धे 'सयंसि पाणिसि वा' स्वकीये हस्ते वा 'उद्धटु उद्धटु भोत्तए वा पायए वा' उद्धृत्य उद्धृत्य अवकृष्याऽवकृष्य भोक्तुं वा पातुं वा कल्पते इति ‘एस कप्पे अपारिहारियस्स पारिहारियओ' एषः पूर्वोक्तः कल्प आचारः अपारिहारिकस्य परिहारतपोवर्जितस्य शुद्धस्य साधोः पारिहारिकतः पारिहारिकमधिकृत्य कथितस्तीर्थकरैरिति ॥ सू० २६ ॥ साम्प्रतमपारिहारिकाऽऽनीताशनादिभोजने पारिहारिकस्य विधिमाह-'परिहारकप्पट्टिए' इत्यादि । सूत्रम्-परिहारकप्पहिए भिक्खू थेराणं पडिग्गहेणं बहिया थेराणं वेयावडियाए गच्छेज्जा थेरा य वएज्जा पडिग्गाहेहि अज्जो ! तुमंपि एत्थ भोक्खसि वा पाहसि वो एवं से कप्पइ पडिग्गाहित्तए, तत्थ णो कप्पइ पारिहारिएणं अपारिहारियस्स पडिग्गहंसि असणं वा पाणं वा खाइमं वा साइमं वा भोत्तए वा पायए वा, कप्पइ से सयंसि व्य, ११
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy