SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ चूर्णि भाग्यावरी उ०- २ सू० २५-२६ वस्त्ररजोहरण हृणविधिः ५३ अथ शय्यातरपिण्डविषयान् संगृह्याह भाष्यकारः - ' अनीहडं' इत्यादि । भाष्यम् – अनीहडं नीहडं वा, आइडिया तहेव य । हडिया अंसिया वा, पूयाभत्तं चउव्विहं ॥ २ ॥ सागारिFस संबंधो, जत्थ जारिसतारिसी । साहूणं कप्पए नो तं कप्पे संबंधवज्जियं ॥ ३॥ छाया - अनिहृतं निहृतं वा, आहृतिका तथैव च । निर्हृतिका अंशिका वा, पूज्यभक्तं चतुर्विधम् ॥ २ ॥ सागारिकस्य संबन्धो, यत्र यादृशतादृशः । साधूनां कल्पते नो तत्, कल्पेत सम्बन्धवर्जितम् ॥ ३ ॥ अवचूरी - 'अनहर्ड' इति । अनिर्हृतम् यद् अन्यस्मै वितरणाय अन्यदीयगृहे न नीत शय्यातरगृह एव स्थितं तत् १, निर्हृतं यत् शय्यातरगृहादन्यदीयगृहे प्राप्तम् २, आहृतिका - अन्यस्माद् गृहात् शय्यातरगृहे समागता 'परोसा' इतिलोकप्रसिद्धा प्राभृतिकारूपा २, निर्हृतिका - शय्यातरगृहादन्यदीयगृहे प्रेषिता प्राभृतिका ४, अंशिका शय्यातरसहितद्वित्रिचतुःपञ्चजनानां विभागैः संमिश्रा ५, चतुर्विधं पूज्य भक्तम्, तत्र प्रथमं कलाचार्यादिपूज्यजनमुद्दिश्य संपादितं प्रातिहारिकत्वेन तस्मै प्रदत्तं सागारिकेण दीयमानम् १, द्वितीयं - पूर्वोक्तप्रकारमशनादि सागारिकस्य पूज्येन दीयमानम् २, तृतीयं तादृशमशनादि अप्रातिहारिकत्वेन पूज्याय प्रदत्तं किन्तु तत् सागारिकेण दीयमानम् ३, एतत्त्रयमप्यकल्प्यम् । चथुर्य तादृशमशनादि अप्रातिहारिकत्वेन पूज्याय प्रदत्तं सागारिकं वर्जयित्वा पूज्यहस्तेन दीयमानम् ४, एतत्कल्प्यम् । एषु नवविधेषु अशनादिषु मध्ये यत्र यस्मिन् कस्मिंश्चिदशनादौ सागारिकस्य यादृशतादृशो यः कोऽपि सम्बन्धः स्वत्वविषयो हस्तदानविषयो विभागविषयो वा एतादृशोऽन्यो वा कोऽपि सम्बन्धो भवेत् तदशनादि साधूनां नो कल्पते, किन्तु यत् सम्बन्धवर्जितं - स्वत्वसम्बन्धहस्तदानसम्बन्धविभागसम्बन्धवर्जितं भवेत् तत् साधूनां कल्पेत ॥ २-३॥ पूर्वंमाहारसूत्रं प्रोक्तम्, आहारानन्तरं वस्त्रप्रसङ्ग इति वस्त्रग्रहणसूत्रमाह - ' कप्पइ. पंच वत्थाई ' इत्यादि । सूत्रम् - कप्पइ निग्गंथाण वा निग्गंथीण वा इमाई पंच वत्थाई धारितए वा परिहरित्तए वा तं जहा- जंगिए भंगिए सागए पोत्तए तिरीडपट्टे नामं पंचमे ॥ सू० २५ ॥ छाया -कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा इमानि पञ्च वस्त्राणि धारयितुं वा परिहर्तुं वा तद्यथा - जाङ्गमिकम्, भाङ्गिकम्, शाणकम् पोतकम् तिरीटपट्टकं नाम पञ्चमम् ॥ सू० २५ ॥ चूर्णी - 'कप' इति । निर्ग्रन्थानां वा निर्ग्रन्थीनां वा इमानि वश्यमाणानि पञ्च पञ्चप्रकारकाणि वस्त्राणि धारयितुं वा स्वनिश्रायां स्थापयितुं, तथा परिहर्तुं वा उपभोक्तुं कल्पते, तान्येव
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy