SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ । अथ द्वितीयोदेशकः । अथास्य द्वितीयोदेशकादिसूत्रस्य प्रथमोदेशकस्यान्तिमसूत्रेण सह कः सम्बन्धः ? इत्यत्राह - भाष्यकारः - 'पुव्वं ' इत्यादि । भाष्यम् – पुव्वं आरियविसया, बुत्ता साहूण गमणपाउरगा । तत्थ निवासविही इह, दरिसिज्जइ एस संबंधो ॥१॥ छाया - पूर्वम् आर्यविषयाः, प्रोक्ताः साधूनां गमनप्रायोग्याः । तत्र निवासविधिरिह, दर्श्यते एष सम्बन्धः ॥ १ ॥ अवचूरी - 'पुलं' इति । पूर्वम्-- प्रथमोदेशकस्यान्तिमसूत्रे आर्यविषयाः आर्यदेशाः साधूनां गमनप्रायोग्याः विहरणयोग्याः प्रोक्ताः, तत्र आर्यदेशेषु विहरतां मुनीनां कीदृशे उपाश्रये वस्तव्यम् ? इति उपाश्रयनिवासविधिः इह - अस्य द्वितीयोदेशकस्य प्रथमे सूत्रे दर्श्यते । एष पूर्वी - देशकान्तिसूत्रेण सह अस्यादिसूत्रस्य सम्बन्धो वर्त्तते ॥१॥ इत्यनेन सम्बन्धेनाया तेऽस्मिन् द्वितीयोदेशके निर्ग्रन्थनिर्ग्रन्थीभिः कीदृशे उपाश्रये वस्तव्य - मिति प्रदर्शयितुकामः सूत्रकारोऽस्मिन् विषये त्रीणि सूत्राणि वक्ष्यति, तत्र प्रथमं सचित्तप्रतिबद्धोपाश्रयवासप्रतिषेधसूत्रम् १, द्वितीयम् - ऋतुबद्धकालयोग्योपाश्रयवास विधिप्रतिपादकं सूत्रम् २, तृतीयं चातुर्मासयोग्योपाश्रयविधिप्रतिपादकं सूत्रम् ३ चेति त्रीणि सूत्राणि, तत्र प्रथमं सचित्तबीजप्रतिबद्धोपाश्रयनिवासनिषेधसूत्रमाह - 'उवस्सयस्स' इत्यादि । सूत्रम् - उवस्सयस्स अंतो वगडाए सालीणि वा वीहीणि वा मुग्गाणि वा मासाणि वा तिलाणि वा कुलत्थाणि वा गोमाणि वा जवाणि वा जवजवाणि वा उक्खिताणि वा विक्खित्ताणि वा विइकिण्णाणि वा विष्प किष्णाणि वा नो कप्पइ निम्गंथाण वा निग्गंथीण वा अहालंदमवि वत्थए | सू० १ ॥ छाया— उपाश्रयस्य अन्तर्वगडायां शालयो वा व्रीहयो वा मुद्रा वा भाषा वा तिला वा कुलत्था वा गोधूमा वा यवां वा, यवयवा वा उत्क्षिप्ता वा विक्षिप्ता वा व्यतिकीर्णा ar fast at a कल्पते निर्मन्थानां वा निर्ग्रन्थीनां वा यथालन्दमपि वस्तुम् ॥ सू०१ ॥ चूर्णी - ' उवस्सयस्स' इति । पूर्वोक्तेषु आर्यक्षेत्रेषु विहरतां श्रमणानां ऋतुबद्धकाले चातुर्मासे वा यत्र उपाश्रये स्थितिः कर्त्तव्या भवेत् तस्य उपाश्रयस्य वगडायां 'वगडा' इति देशी शब्दः प्राङ्गणवाचकस्तेन वगडायामिति उपाश्रयस्य प्राङ्गणे शालयः शालिबीजानि, व्रीहयः ता एव शालिविशेषाः, मुद्गाः प्रसिद्धाः, माषाः 'उडद' इति प्रसिद्धाः, तिलाः, कुलत्थाः 'कुलथी' इति प्रसिद्धो धान्यविशेषस्तस्या बीजानि, गोधूमाः, यवाः, यवयवाः 'ज्वारी' इति प्रसिद्धाः, यवजातीयबीजानि वा, एतानि धान्यबीजानि यदि उपाश्रयप्राङ्गणे उत्क्षिप्तानि सामान्येन प्रसृतानि, विक्षिप्तानि
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy