SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यायचूरो उ० १ सू० ४२ आर्यदेशविहरणविधिः ३७ पूर्व निम्रन्थानां निर्ग्रन्थीनां च रात्रौ बहिर्गमनविधिः प्रत्येकं पृथक्पृथक्त्वेन प्रतिपादितः, साम्प्रतं गमनप्रसङ्गात् निम्रन्थनिर्ग्रन्थीनां समुच्चयेनाऽऽर्यदेशान् प्रदर्शयन् विहरणविधिमाह'कप्पइ० पुरत्थिमेणं' इत्यादि । सूत्रम्--कप्पइ निगंथाण वा निग्गंथीण वा पुरथिमेणं जाव अंगमगहाओ एत्तए, दक्खिणेणं जाव कोसंबीओ, पच्चत्थिमेणं जाव थूणाविसयाओ, उत्तरेणं जाव कुणालाविसयाओ एत्तए, एतावताव कप्पइ, एतावताव आरिए खेत्ते, णो से कप्पइ एत्तो बाहिं । तेण परं जत्थ नाणदसणचरित्ताई उस्सप्पंति-त्ति बेमि ॥ मू० ४९॥ छाया - कल्पते निम्रन्थानां वा निर्ग्रन्थीनां वा पौरस्त्ये यावत् अङ्गमगधान् एतुम् , दक्षिणे यावत् कौशाम्बीः, पाश्चात्ये यावत् स्थूणाविषयान्, उत्तरे यावत् कुणालाविषयान् एतुम्, एतावत्तावत् कल्पते, एतावत्तावद् आर्य क्षेत्रम् । नो तेषां (तासां वा) कल्पते एतस्माद् बहिः। ततः परं यत्र ज्ञानदर्शनवारित्राणि उत्सर्पन्ति-इति ब्रवीमि ॥ सू० ४९ ॥ चूर्णी-कप्पइ' इति । निर्ग्रन्थानां वा निम्रन्थीनां वा द्वयानां 'पुरस्थिमेणं' पौरस्त्ये पूर्वदिशायां यावत् अङ्गमगधान् अङ्गजनपद-मगधजनपदं चावधीकृत्य अङ्गमगधदेशपर्यन्तमित्यर्थः । एतु विहाँ कल्पते । तत्र चम्पाप्रान्तसम्बद्धो जनपदः अङ्गपदेन प्रोच्यते, राजगृहसम्बद्धश्च जनपदो मगधशब्देन प्रोच्यते । अत्र सूत्रे बहुवचनं तद्गतानेकापान्तरालजनपदविवक्षया बोध्यम्, एवमग्रेऽपि । 'दक्खिणेणं' दक्षिणस्यां दिशि यावत् कौशाम्बीः, कौशाम्बीति कौशाम्बीनगर्युपलक्षितो जनपदः कौशाम्बीशब्देन प्रोच्यते इति कौशाम्बीसम्बद्धदेशपर्यन्तम् एतुं कल्पते, इति सर्वत्र संबध्यते । 'पच्चत्थिमेणं' पाश्चात्ये पश्चिमदिशायां यावत् स्थूणाविषयान् स्थूणादेशपर्यन्तम् एतुं कल्पते । 'उत्तरेणं' उत्तरस्यां दिशि यावत् कुणालाविषयान् कुणालादेशपर्यन्तम् एतुं कल्पते । एतावत्तावत् चतुर्दिक्षु पूर्वोक्तजनपदपर्यन्तमेव निर्ग्रन्थनिर्ग्रन्थीनां विहत्त कल्पते । तत्र कारणमाह-'एतावताव' एतावत्प्रमाणमेव आर्यक्षेत्रम्, अत्र तीर्थकरादिमहापुरुषजन्मभूमित्वेन लोका धर्मिष्ठा: सन्ति तेन निर्ग्रन्थनिम्रन्थीनां ज्ञानदर्शनचारित्राणामाराधना सम्यक् कर्तुं शक्यतेऽत एतावत्येव आर्यक्षेत्रे निर्ग्रन्थनिर्ग्रन्थीभिर्विहर्तव्यमिति भगवता समुपदिष्टम् । आर्यक्षेत्राहिर्विहरणे निषेधमाह'नो से कप्पई' इति । 'से' इति तेषां निम्रन्थानां तासां निर्ग्रन्थीनां वा नो कल्पते एतस्मात् क्षेत्राद् बहिर्विहतम् । ज्ञानादिलाभार्थमपवादमाह-'तेण परं' इति, ततः पूर्वोक्तमर्यादितार्यक्षेत्रात् परम्अग्रे अनार्यदेशेऽपि यत्र ज्ञानदर्शनचारित्राणि उत्सर्पन्ति वृद्धिमासादयन्ति तत्र विहत्तु कल्पते, यदि पूर्वोक्तार्यक्षेत्राद्वहिः कारणवशात् श्रुतस्थविरास्तरक्षेत्रेऽपि तत्क्षेत्रगतजनानां सुलभबोधित्वप्राप्तिबुद्ध्या गता भवेयुः, ते च पश्चात् जवाबलक्षीणत्वेन तत्रैव स्थिरवासे स्थिता भवेयुस्तेषां पार्थे ज्ञान
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy