SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ पृहत्कल्पसूत्र चूर्णी-'नो कप्पइ' इति । निर्ग्रन्थानां निर्ग्रन्थीनां रात्रौ विकाले वा वस्त्रं वा चोलपट्टशाटिकादिकम् , प्रतिग्रह-पात्रम्, कम्बलम्-ऊर्णामयं प्रावरणवस्त्रम्, पादप्रोञ्छनं-रजोहरणम्. अथवा पात्रप्रो छनम्-आहारादिपात्राणां प्रोञ्छनवस्त्रम्, एतत्सर्व वस्तुजातं प्रतिग्रहीतुं न कल्पते । तर्हि किं कल्पते ! इत्याह-एकया केवलया हृताहृतया-हृतं पूर्व चौरादिना चोरितं पश्चात् शुभपरिणामादिवशात् गृहस्थभयवशाद्वा. आता-आनीय पुनर्दत्ता, एतादृशी काऽपि वस्त्रजातिः, तया अन्यत्र-विना तां त्यक्त्वेत्यर्थः न कल्पते, सा तु कल्पते इति भावः । साऽपि च या मानीय दत्ता सा यदि परिभुक्ता हरणक; स्वपरिभोगे नीता शरीरे धृता भवेत्, धौता वा जलेन प्रक्षालिता वा भवेत्, रञ्जिता वा रक्तपीतादिरागेण रङ्गयुक्ता वा कृता भवेत्, घृष्टा वा चिक्कणप्रस्तरादिना चिक्कणीकृता वा, मृष्टा वा प्रक्षिता सुकोमलीकृता वा भवेत्, संप्रधूमिता, संप्रधूपिता वा भगुरुचन्दनादिसुगन्धद्रव्यधुमेन धूमयुक्ता कृता, सुगन्धद्रव्यधूपेन धूपिता वा भवेत् तथापि सा वस्त्रजातिनिर्ग्रन्थैनिग्रन्थीभिः रात्रौ विकाले वाऽपि सा दीयमाना ग्रहीतव्या, तस्याः स्वनिश्रागतत्वादिति ॥ सू० ४४॥ पूर्व रात्रौ विकाले वा वस्त्रग्रहणविधिरुक्तः, साम्प्रतमध्वगमनस्य संखडिगमनस्य च निषेधमाह-'नो कप्पइ० अद्धाण०' इत्यादि । सूत्रम्--'नो कप्पइ निग्गंथाण वा, निग्गंथीण वा राओ वा, वियाले वा, अद्धाणगमणं एत्तए ॥ सू०४५ ॥ नो कप्पइ निग्गंथाण वा निगंथीण वा संखडि वा संखडिपडियाए अद्धाणगमणं एत्तए ॥ ०४६॥ छाया-नो कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा रात्रौ वा विकाले वा अवगमनम् एतुम् ॥ सू० ४५॥ नो कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा संखडि वा संखडिप्रतिक्षया अध्वगमनम् एतुम् ॥ सू० ४६ ॥ चूर्णी—'नो कप्पइ' इति । निर्ग्रन्थानां निर्ग्रन्थोनां च रात्रौ विकाले वा सन्ध्याकाले अध्वगमनं मार्गगमनम् एतुं कर्तुं नो कल्पते, रात्रौ विकाले वा गमनशीलस्य प्रथमम् चक्षुरगोचरतया ईर्यासमितिरेव विराधिता भवति, तस्यां विराधितायां संयमोऽपि विराधितो भवेत् तेन तीर्थकराज्ञाऽतिकान्ता भवतीति संयमविराधना भवति, एवमात्मविराधना तु प्रत्यक्षेव यथारात्रौ विकाले वा गमनशोलस्य साधोरन्धकारसद्भावाद् गर्तादौ पतनं भवेत्, पादयोः कण्टकवेधः स्यात्, चौरलुण्टाकादिना वस्त्राद्यपहरणं भवेत्, श्वापदादिहिंस्र जन्तुकृतस्त्रासः समुत्पयेत, स मारयेद्वा कुलटाजारादिकृतोपद्रवोऽपि संभवेत् तस्माद् निम्रन्थनिम्रन्थीभिः रात्री विकाले वाऽध्वगमनं न
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy