SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ पूर्वावचूरी उ० १ सू० ३२-३४ वसतिवासविधिः ३ मिन्नादि स्मिन उपाश्रये गृहस्थगृहेण सार्द्धं संबद्धं भवेत् गृहस्थगृहस्य उपाश्रयस्य चाच्छादानामिष्ठं भितिर्वा एका भवेत्, यत्र स्थितैर्गृहस्थस्त्रीपुरुषाणां शब्दादि श्रूयते एष द्रव्यतः प्रतिबद्धः । भाक्तः प्रतिबद्ध चतुर्विधः - प्रस्रवण - स्थान - रूप- शब्दभेदात् । एते चत्वारो भेदा भावप्रति+ वृद्धो भवन्ति । यत्रोपाश्रये साधूनां गृहस्थस्त्रीपुरुषाणां च एकैव कायिकी भूमिर्भवेत् स प्रतक्णप्रतिबद्धः प्रथमः १, यत्रैकमेवोपवेशनस्थानं भवेत् स स्थानप्रतिबद्धो द्वितीयः २, यत्रः स्त्रीणां रूपसौन्दर्यादि विलोक्यते स रूपप्रतिबद्धस्तृतीयः ३, यत्र पुनः स्थितैः स्त्रीणां भाषाभूषणपदन्या सादिशब्दा: रहस्यशब्दाश्च श्रूयन्ते स शब्दप्रतिबद्ध चतुर्थः ४ । अत्र द्रव्यभावसंयोगे चरवासे भङ्गाः भवन्ति तथाहि - द्रव्यतः प्रतिबद्धो न भावतः १, भावतः प्रतिबद्धो न द्रव्यतः २, द्रव्यतो भावतश्च प्रतिबद्धः ३, न द्रव्यतो न भावतः प्रतिबद्ध: ४ । अत्र चतुर्थो भङ्गोऽनुज्ञाता, उभयथा प्रतिबद्धत्वात् । अत्र तु प्रतिबद्धोपाश्रये निवासविषयो निषेधो विहितः । प्रतिबद्धोपाश्रये वसतां निर्गन्धानामाज्ञा भङ्गादयो दोषाः समापतन्ति । साधवो द्विविधाः प्रोक्ताः - भुक्तभोगिनः अभुक्त भोगिनश्च तत्र ये भोगान् भुक्त्वा पश्चात् प्रव्रजितास्ते भुक्तभोगिनः, ये च कुमारावस्थायामेव प्रव्रजितास्ते अभुक्तभोगिनः प्रोच्यन्ते । अत्र चतुर्विधे भावप्रतिबद्धे दोषा इमे - प्रस्रवणप्रतिबद्धे - कायिक्यादिकरणे अकस्मात् गृहस्थां साधूनां चैकत्रागमनं संभवेत् १, स्थानप्रतिबद्धे स्वाध्यायादिसमये द्वयानामेकत्रोपवेशनं भवेत् २, रूपप्रतिबद्धे - स्त्रीणां रूपसौन्दर्यानचेष्टाद्यवलोकनं भवेत् ३, शब्दप्रतिबद्धे - स्त्रीणां हसित-गीत-कन्दित- कूजित - प्रेमालापादिशब्दश्रवणं भवेत् ४ । एतेन भुक्तभोगिनां भुक्तभोगस्मूतिर्जायते, अभुक्तभोगिनां कौतुकादि जायते, तेन ब्रह्मवते शङ्काकाङ्क्षादिना व्रतभङ्गदोषप्रसङ्गः । तत्र, वसतां निर्ग्रन्थानामाज्ञा भङ्ग मिथ्यात्वानवस्थादयोऽनेके दोषाः संभवन्ति, अतः प्रतिबद्धायां बसौ निर्मन्थानं बासो न कल्पते इति भावः ॥ सू० ३१ ॥ पूर्वं प्रतिबद्धशय्यायां निर्ग्रन्थानां वासो निषिद्धः, साम्प्रतं निर्ग्रन्थीनां तत्र वासः कल्पते इति विधि प्रदर्शयति- ' कप्पइ० षडिबद्ध ० ' इत्यादि । सूत्रम् -- कप्पर निग्गंथीणं पडिबद्ध सिज्जाए वत्थए || सू० ३२ || छाया - कल्पते निर्ग्रन्थीनां प्रतिबद्धशय्यायां वस्तुम् ॥३२॥ चूर्णी - 'कप्पड़' इति । निर्ग्रन्थीनां प्रतिबद्धशय्यायां वस्तुं कल्पते इति सूत्रार्थः । नबु पूर्वोक्तस्वरूपायां प्रतिबद्ध शय्यायां तु निर्ग्रन्थीनामपि पूर्वोक्ता एव दोषाः संभवन्ति तर्हि कथं तासां 'कल्पते' इति प्रोक्तम् ? तत्राह-निर्ग्रन्थीनां केवलस्त्रीजनप्रतिबद्धोपाश्रये सम्बन्धिजनप्रतिपाश्रये वा वस्तुं कल्पते इति सूत्रकाराभिप्रायो बोध्यः, तत्र केवलस्त्रीजन - सम्बन्धिजन - प्रतिबद्ध न द्रव्यभावभेदभिन्नस्यापि तस्य निर्दोषत्वसद्भावात् साध्वीनां द्रव्यक्तः स्त्रीप्रतिबद्धे उपाश्रये
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy