SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ वृहत्कल्पसूत्रे भाष्यम् -आहारो पुव्वुत्तो, सो य कहिं भुंजर समुवविस्स । इय वसहीविहिमेत्थ य, वन्नेइ एस संबंधो ॥७॥ छाया-आहारः पूर्वमुक्तः स च कुत्र भुज्यते समुपविश्य । इति बसतिविधिमत्र च वर्णयति एष सम्बन्धः ॥७॥ अवचूरिः—'आहारो'इति । पूर्वं पूर्वसूत्रे आहारः उक्तः, स चाहारः कुत्र समुपविश्य भुज्यते इति, एतदवलम्ब्य अत्र च वसतिविधि 'वन्नेई' वर्णयति । एष पूर्वसूत्रेणास्यसम्बन्ध इति ॥७॥ इत्यनेन सम्बन्धेन निम्रन्थानां निम्रन्थीनां च ऋतुबद्वादिकाले एकस्मिन् क्षेत्रे कियन्तं कालं वस्तुं कल्पते ? इति प्रदर्शयितुकामः सूत्रकारः प्रथमं निर्ग्रन्थसूत्रमाह-‘से गामंसि बा' इत्यादि । मूलम्--से गामसि वा णगरंसि वा खेडंसि वा कब्बडंसि वा मडंबंसि वा पट्टणंसि वा आगरंसि वा दोणमुहंसि वा निगमंसि वा आसमंसि वा संनिवेसंसि वा संवाहंसि वा घोसंसि वा अंसियंसि वा पुडभेयगंसि वा रायहाणिसि वा सपरिक्खेसि अबाहिरियसि कप्पइ निग्गंथाणं हेमंतगिम्हासु एगं मासं वत्थए, ॥६॥ छाया-अथ ग्रामे वा नगरे वा खेटे वा कर्बटे वा मडम्बे वापसने वा आकरे या द्रोणमुखे वा निगमे वा आश्रमे वा संनिवेशे वा संवाहे वा घोषे वा असिकायां वा पुटभेदने वा राजधान्यां वा सपरिक्षेपे अबाहिरिके कल्पते निम्रन्थानाम् हेमन्तग्रीष्मेषु पकं मासं वस्तुम् ।।सू ६॥ चूर्णी :-से गामंसि वा इति । 'से' अथ ग्रामे-गम्यो गननीयः प्रापणीयो वा अष्टादशानां कराणां यः स ग्रामः, प्रसते बुद्धयादिगुणान् इति वा ग्रामः,पृषोदरादिना सिद्धिः, तस्मिन् ग्रामे, नगरे वा, 'नयरे' इत्यस्य नकरे इति छाया, तत्र करः अष्टादशविधो राजदेयो भागः, स न विद्यते यत्र नकरम्-नगरम् , पृषोदरादित्वात् ककारस्य गकारः, नत्रो लोपाभावश्चेति, तस्मिन् नगरे, खेटे वा खेटः धूलिया कारपरिक्षितजननिवासः तस्मिन् , कर्बटे वा, कर्बटः कुत्सितनगरम्, तस्मिन् वा, मडने वा-मडम्बो यस्य सर्वतश्चतुर्दिक्षु सार्द्धगव्यूतपर्यन्तं प्रामादिकं न भवति सः, तस्मिन् वा, पत्तने वा, पत्तनं द्विविध-जलपत्तनं स्थलपत्तनं च, यत्र नावादिना गम्यते तत् जलपत्तनम्, यत्र शकटघोटकादिभिर्गम्यते तत् स्थलपत्तनम् , तस्मिन् एतादृशे द्विविधेऽपि पत्तने वा, आकरे वा, आकरः खनिः लोहताम्ररूप्याद्युत्पत्तिस्थानं, यत्र लोकाः प्रस्तरधातुधमनादिना लोहताम्ररूप्यादि संपादयन्ति तस्मिन् तादृशे स्थाने वा, द्रोणमुखे वा द्रोणमुखम्-द्रोणः परिमाणविशेष इति परिमाणस्य परिमितजलरूपस्य मुखं, यत्र समुद्रस्य ऊर्मयः यथासमयमागच्छन्ति
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy