SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ पूर्णिमायापधुरी उ०६ सू० २० । षविधकल्पस्थितिवर्णनम् १५५ इति षष्ठो भेदः६। यतः सव्वत्य भमक्या अणियाणया पसत्था सर्वत्र भगवता अनिदानता प्रशस्ता प्रशंसितेति ॥ सू० . १९॥ .' सम्प्रति कल्पस्थितेर्भेदान् दर्शयितुमाह-'छविहा' इत्यादि । ' सूत्रम्-छविहा कप्पट्टिई पण्णत्ता तं जहा-सामाइयसंजयकप्पटिई १, ओवहावणियसंजयकप्पट्टिई २, णिव्विसमाणकप्पट्टिई ३, णिव्क्टिकाइयकप्पद्धिई ४, जिणकप्पट्टिई ५, थेरकप्पट्टिई ६। त्ति बेमि ॥ सू० २०॥ कप्पस्स छठ्ठो उद्देसो समतो छाया - षविधा कल्पस्थितिः प्रशता तथा सामायिकसंयतकल्पस्थितिः १, छेदोपस्थापनीयसंयतकल्पस्थितिः २, निविंशमानकल्पस्थितिः ३, निविष्टकायिककल्पस्थितिः ४, जिनकल्पस्थितिः ५, स्थविरकल्पस्थितिः ६। इति ब्रवीमि । सु० २०॥ ___ कल्पस्य षष्ठ उद्देशकः समाप्तः ॥६॥ चूर्णी-'छव्विहा' इति। षड्विधा षट्प्रकारा कप्पढिई पण्णत्ता कल्पस्थितिः प्रज्ञप्ता कथिता, तत्र कल्पे संयताचारे स्थितिरवस्थानमिति कल्पस्थितिः, अथवा कल्पस्य साधुसामाचारीलक्षणस्य स्थितिमर्यादा इति कल्पस्थितिः, सा षड्विधा प्रज्ञप्ता-निरूपिता । तानेव षड्भेदान् दर्शयितुमाह-तं जहा इत्यादि, तं जहा तद्यथा-सामाइयजयकप्पट्टिई सामायिकसंयतकल्पस्थितिः, तत्र समो रागद्वेषरहितभावः-ज्ञानदर्शनचारित्रलक्षणभावः, तस्याऽऽयः प्राप्तिः, अथवा समय एव सामायिकं सर्वसावद्यकर्मणां विरतिलक्षणम्, तत्प्रधानाः संयताः साधवः, तादृशसाधूनां स्थितिः सा सामायिकसंयतकल्पस्थितिः प्रथमा १, छेदोवडावणियसंजयकप्पट्टिई छेदोपस्थापनीयसंयतकल्पस्थितिः, तत्र छेदनम्-पूर्वपर्यायोच्छेदनम्, उपस्थापनीयमारोपणीयं यत् तत् छेदोपस्थापनीयम् व्यक्तितो महाव्रतेषु आरोपणमित्यर्थः, ततश्च छेदोपस्थापनीयप्रधाना ये संयताः ते छेदोपस्थापनोयसंयताः साधवस्तेषां या कल्पस्थितिः सा छेदोपस्थापनीयसंयतकल्पस्थितिर्द्वितीया २, निविसमाणकप्पदिई निर्विशमानकल्पस्थितिः, तत्र निर्विशमानाः परिहारविशुद्धिकल्पं वहमानाः, तेषां कल्पस्तस्य स्थितिनिर्विशमानकल्पस्थितिस्तृतीयो भेदः ३, निन्विट्ठकायइकप्पहिई निर्विष्टकायिककल्पस्थितिः, तत्र निविष्टकायिको नाम येन परिहारविशुद्धिकं नाम तपो व्यूढम्, निर्विष्ट आसेवितः विवक्षित चारित्रस्वरूपः कायो-देहो यैस्ते निर्विष्टकायिका इति व्युत्पत्तेः, तेषां निर्विष्टकायिकानां कल्पस्थितिरिति निर्विष्टकायिककल्पस्थितिश्चतुर्थी ४ । जिणकप्पहिई जिनकल्पस्थितिः, तत्र जिनाः गच्छविनिर्गताः साधु विशेषास्तेषां जिनानां कल्पस्थितिरिति जिनकल्पस्थितिः पञ्चमी ५, थेरकप्पढिई स्थविरकल्पस्थितिः, तत्र स्थविरा आचार्योपाध्यायादयः गच्छसापेक्षाः साधुवि
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy